________________
( ८८ ) अनुलोमदशाभेदमेवं विद्याद्विचक्षणः। प्रतिलोमदशाभेदः संक्षेपात्कीर्त्यते ऽधुना ॥१॥ दिवाजातस्य बिज्ञेया भास्वतः प्रथमा दशा। निशाजस्य दशां चेन्दोरन्ते लग्नदशा भवेत् ॥ २॥ ततः परं दशाभेदं तत् कालबलिनां क्रमात् । उभयत्रापि च होरायां फलं तत्पतिसन्निभम् ॥ ३ ॥ दशाग्रहाणां तत्कालमित्रोदासीनविद्विषाम् । श्रेष्ठा मध्याश्च कष्टाश्च क्रमेण परिकीर्तिताः ॥ ४ ॥ स्वक्षेत्रोच्चांशभाजाञ्च मित्रराशिजुषामपि । स्वोच्चाभिलाषिणाञ्चापि दशाः श्रेष्ठा नचापरः ॥ ५॥ अनुलोमदशातुल्यमितरं सर्वमिष्यते । आयुर्दायविधानेषु सावनं मानमाचरेत् ॥ ६॥ दशारम्भे शशी श्रेष्टः सुहृद्वर्गगतोऽपि वा। निजवर्गगतोवापि स्वोच्चसेवितसत्तमः ॥ ७॥ योगे ऽधिमित्रयोरिष्टं पूर्णमसन्ततोऽन्यथा । योगेऽधिद्वेषिणोः पापं पूर्णमसन्ततोऽन्यथा ॥ ८॥ इति दशाविपाकादशोनामत्रयोदशोऽध्यायः ।
चतुर्दशोऽध्यायः।
अतः परं प्रवक्ष्यामि ग्रहगोचरपूर्वकम् । विधिमिष्टकवर्गस्य वराहमिहिरोदितम् ॥ १॥ शीतांशुम॒ष्टमन्नं जनयति विचरजन्मिनां जन्मराशौ हर्ष दैयेयमन्त्री दिवसकरकुजौ शत्रुपक्षस्य दृद्धिम् ।
१निशाजातस्य ॥ २ उभत्रापि ॥ ३ दैत्येन्द्र ।।
Aho! Shrutgyanam