________________
( ७७ )
तत्कालिक विधानेन प्रतिलोमायुषि ध्रुवम् ॥ ५३ ॥ निजक्षेत्रस्थिताः स्वर्य्यमित्रोदासनिविद्विषाम् । अशकेषु स्थितस्त्वेक द्वित्रिपादांशकैर्युताः ॥ ५४ ॥ मित्रक्षेत्रस्थिताः स्वर्य्यमित्रोदासीनविद्विषाम् । अंशकेषु स्थिताः द्वित्रिचतुःपञ्चाशकैर्युताः ॥ ५६ ॥ शत्रुक्षेत्रस्थिताः मित्रक्षेत्रोक्तस्य विपर्य्ययात् । लब्धं यजन्तूदासी नक्षेत्रेनवं विधिभवेत् ॥ ५६ ॥ हानावस्तमितास्वार्द्धं सहस्थामदनाशकम् | सजन्ति शशिना योगे न किञ्चिदपि खेचराः ॥ ५७ ॥ पुष्पवन्तौ विनकत्र स्थिताः शेषा यथाक्रमम् । हित्वा द्वितीयां बलिनां सङ्गयांशोनास्वदायतः ॥ ५८ ॥ सौम्यक्रान्तार्द्धहोरायाः दायस्तु द्विगुणोभवेत् । क्रूरक्रान्तार्द्धहोरायाः दायस्तु दलितो भवेत् ॥ ५९ ॥ क्षेप्यम्प्रक्षिप्य सर्व्वत्र दायो शोध्यं विशोधयेत् । भुक्ताभुक्तवशादेव मायुः पिण्डद्वयं भवेत् ॥ ६० ॥ उभयोरायुषोः शिष्टमन्तरालेकलीकृतम् । जनकेन ततो हृत्वा सम्प्राप्तं दिवसादिकम् ॥ ६१ ॥ प्रतिलोमायुरुद्युक्तं यदि तस्माद्विशोधयेत् । ऊनं यदि भवेदेतत् तत्रैव ह नियोजयेत् ॥ ६२ ॥ एवं पुनः पुनः कुर्य्यादनुलोमायुषा सह । 'जनकप्राप्तलाभस्तु यावदेस विशेषताम् ॥ ६३ ॥ प्रतिलोमायुषःपिण्डस्तदाशुद्धइति स्मृतः । अनुलोमायुषि माज्ञैः क्रियेयं न विधीयते ॥ ६४ ॥
*
१ रुत्तेयम् । २ ध्रुवम् । ३ सेत्वम् । ४ जनत । ५ यावदेत्य विशेषताम् ।
Aho! Shrutgyanam