________________
अजे कुलोरे वृषभेऽथवापि लग्नत्वमाप्ते यदि राहवास्ते । ब्रूयात्तदा मङ्गलमेव यद्वा भवन्ति योगा बहवः शुभाश्च ३१ आयुस्तैलमिव प्रोक्तं शरीरं वत्तिका यथा । चेतः प्रदीपवत्तत्र प्रत्युपायास्तु वायुवत् ॥ ३२ ॥ अभावमेवारिष्टानामवसीय बुधः पुरः। पश्चादायुर्विधानेषु यथा देशं प्रवर्त्तताम् ॥ ३३ ॥ निर्गच्छतो योनिमुखान्मू लग्नमिति स्मृतम् । ततः प्रभृति निर्देश्याः क्रमशोऽन्येऽपि राशयः ॥ ३४ ॥ आर्योदयस्यपुसस्तु नियमोऽयं प्रकल्पितः । पादोदयस्य ताज्यादे विलोमेन प्रकल्पयेत् ॥ ३५ ॥
मूर्दा ललाटास्यतटीकपोलो कण्ठोऽयं वक्षो हृदयञ्च कुक्षी। कटयूरुजानूनि तथैव जो
पादौ च लग्नानि भवन्ति भानि ॥ ३६ ॥ ग्रहाणां सदसद्भावैस्तत्तदाश्रितमस्तकम् । पृष्ठञ्च परिहीनञ्च विनिश्चिस वदेदुधः ॥ ३७॥ भानुः पिता शशी माता शुक्रः पत्नी सुतादिकम् । गुरुविभवरुपादिबुधो बुद्धिश्च वैरिणः ॥ ३८ ॥ कुजस्तु सोदरोत्साहौ शनिर्गो किङ्करादिकम् । कुमारो लग्नमेव स्या दिसेवंग्रहसङ्ग्रहः ॥ ३९ ।। नीचाभ्रष्टं खगं स्वोच्चमारोहन्तं विनिर्दिशेत् । उच्चाद्भुष्टं पुनर्नीचमवरोहन्त मादिशेत् ॥ ४० ॥ भानुः परमनीचस्थो द्वाचत्वारिंशदंशुमान् । ततो यथा बलञ्चान्ये विरुपाः नांशवः क्रमात् ॥ ४१ ॥ १ वक्षो । र मादिशेत् । ३ द्विरुपो।
Aho! Shrutgyanam