________________
( ७ )
क्रूरेषु सप्तमस्थेषु चन्द्रो लग्नगतो यदि ।
तदापि मरणं प्राप्तं बादरायणसम्मतम् ॥ २२ ॥ चन्द्रे व्ययगते क्षीणे पापैर्लग्नाष्टमाश्रयैः । कण्टकैः शुभवज्जैश्च जातस्य मरणं भवेत् ॥ २३ ॥ शशिनि शनिसमेते लग्नगे सोपरागे क्षितिसुतबति रन्धे नाशमोहुश्च मातुः । स्थितवति सबुधे वा सार्कजे वा तथार्के भवति मरणमुक्तं पूर्ववच्छ जातम् ॥ २४ ॥ लग्नाष्टनवमान्तस्थे सोमारार्कशनैश्चरैः । अदृष्टैर्गुरुणा शक्तिमता मृत्युमिहादिशेत् ॥ २५ ॥ क्षीणेन्दुलग्न पुनन्य कामधर्मसमाश्रयः । नाशकृद्बलिभिर्जीवसितज्ञैरयुतेक्षितः || २६ ॥
यस्मिसंस्थो जननसमये शक्तिमान्योगकर्ता तत्र प्राप्ते शिशिरकिरणे पापदृष्टे समन्तात् । मृत्युर्वाच्यश्शीशनि बलिनि स्वर्क्षगे वापि धीरै । 'बन्धुच्छेदादिभिरपहतःस्यादरिष्टोपघाते ||२७॥ विवर्द्धमानः शशभृत् समस्त ग्रहः मुदृष्टो विनिहन्सरिष्टम् । चन्द्रात्तु षष्टाष्टमसप्तमस्थाः सौम्याश्च रक्षन्ति शिशुन विपापाः २८ होरागतो जन्मपतिः समस्तै निरीक्षितः पापवलं क्षिणोति । चन्द्रः शुभस्वोच्चगतश्च मित्रवर्गस्थितो वा न करोसरिष्टम् २९ होरागतो गुरुरुशुरुदात्तशक्ति
कोपि हन्ति दुरितं शुभदृष्टमूर्त्तिः । राहुस्तथैव कथितस्त्रिषडायसंस्थः सौम्येक्षितोऽपि शुभखचरसङ्गतोऽपि ॥३०॥
१ यमातः । २ द्वन्द्वच्छेदादिभिरुपहतः । ३ शिशुः । ४ रुदाशुरु ।
Aho! Shrutgyanam