________________
सौम्याश्च षष्ठाष्टमगा बलाढ्यैः पापैस्सुदृष्टाःसदवीक्षिताश्च । मासेन मृत्युं जनयन्ति होरा
धिपाश्च पापापजितास्तथास्ते ॥ ११ ॥ अष्टमं शशिनःकूरसहितं मरणावहम् । लग्ने पापयुते चन्द्रः पञ्चमस्थश्च दोषदः ॥१२॥ द्वादशस्थानगश्चन्द्रः सूर्यःसूर्यमुतः क्रमात् । मातुः पितुश्च सूनोश्च व्याधिं वहति भूरिशः ॥ १३ ॥ भाग्यपूष्याप्यचित्राणां पादेषु च यथाक्रमम् । पितुर्मातुश्चतद्भातु लिस्य च मृतिर्भवेत् ॥ १४ ॥ पापग्रहयुतश्चद्रो ब्रजेवरा शुभेतरम् । मातुर्मरणमाचष्टे पितुश्च दिनकृत्तथा ॥ १५ ॥ गर्भ निहन्ति शीतांशुमध्यगो वैक्रमन्दयोः । सपापदृष्टो होरास्थस्तादृशो जननीमपि ॥ १६ ॥ सन्ध्यायां चन्द्रहोरायां क्रूरराश्यन्तसविनः । मृत्युदाश्चन्द्रपापाश्च प्रसेकं केन्द्रसेविनः ॥ १७ ॥ वक्रस्य पूर्वार्धगताश्चपापाःशुभाश्च पार्शनिसेविनश्चेत् । लग्ने कुलीरेऽपि च वृश्चिके वा जातस्य मृत्युन चिरेण दृष्टः१८ क्षीणे शशाङ्के लग्नस्थे पापाश्च केन्द्रसेविनः । अष्टमे वाभवेयुस्ते तदाजातो न जीवीत ॥१९॥ क्रूरग्रहयुतश्चन्द्रो व्ययोदयकलवगः। नष्टसदीक्षणः केन्द्रैः शुभवज्जैश्च मृत्युदः ॥२०॥ चतूराशिगतोवेन्दुः सप्तमस्थोऽपि वाभवेत् । क्रूरयोर्मध्ययातश्चेत् तदापि मरणमदः ॥ २१ ॥
१ शुभेतरात् । २ चक्रचन्द्रयोः ।।
Aho! Shrutgyanam