________________
( ७२ ) अतःपरं प्रवक्ष्यामि रहस्य ज्योतिषागमे । आयुयविधानं हि सारं मुनिमतान्तरे ॥ १॥ असन्निधौ जन्मपितुश्शशाङ्के सितज्ञयोर्मध्यगतेऽथ केन्द्रे । होरामपश्यत्युदये शनौ वा लग्नात्कुजे वा यदि सप्तमस्थे॥२॥
सार्कःशशी भवति पापयुतोऽथवापि जीवो न लग्नमाप पश्यति नापि चन्द्रम् । सार्क शशाङ्कमपि पश्यति नैव जीवो
जातःपरं भवति जारसुतः तदानीम् ॥ ३ ॥ गुरुक्षेत्रगत चन्द्रे तयुक्ते चान्यराशिगे।। तद्रेष्काणे तदंशे वा नापरैर्जात इष्यते ॥ ४ ॥ लग्ने यो द्वादशांश स्यात्तदिग्द्वारं गृहम्भवेत् । तदीशदिङ्मुखं चापि मणित्थाचार्यसम्मतम् ॥ ५ ॥ विलग्नराशिसिद्धा वा ककुष्केन्द्रस्थितस्य वा । बलिनो वा भवेदासां द्वारे जननसमनः ॥ ६ ॥ लग्नात् षष्ठाष्टमो वापि चन्द्रःपापनिरीक्षितः । अर्द्धगास्सूतिकाः शुद्धे मृत्युमद्धा प्रयच्छति ॥ ७ ॥ स एव शुभदृष्टश्चे दष्टाब्दे मृत्युदो मतः । दृष्टःसद्भिरसद्भिश्च तदर्भाब्दे करोति तत् ॥ ८॥ षष्ठाष्टमगतश्चन्द्रो न सर्वैर्वा निरीक्ष्यते । सौम्ययुक्तोऽथवा सौम्य क्षेत्रगोवान मृत्युकृत् ॥९॥
पक्षे सिते भवति जन्म यदि क्षपायां कृष्णेऽथवाऽहनि शुभाशुभवीक्षितोऽपि । तच्चन्द्रमा रिपुविनाशगतोऽपि यत्ना दापत्सु रक्षति पितैव शिशुं निहन्ति ॥ १० ॥
१ परे ।
Aho ! Shrutgyanam