________________
स्वस्माद्ग्रहः पुरम्पश्येत्पादवृद्ध्या यथाक्रमात् । भ्रातृमानौ सुतामासौ सुहृद्रन्धे च मन्मथम् ॥ ५६ ॥ भानुः शशीभृगुजीक सौम्यो भौमः शनैश्वरः। निसं सिद्धबला एते विलोमादुत्तरोत्तरम् ॥ ५७ ॥ ये वक्रगतयःस्निग्धा जित्वरा विमलोज्वलाः । ते चेष्टा बलिनो नाम होराविद्भिः प्रकाशिताः ॥ ५८ ॥ उत्तरायणगौ सूर्यशशाङ्को वलिनौ मतौ । दक्षिणायणगाश्चान्ये चेष्टा बलमिदं भवेत् ॥ ५९ ॥
स्वोच्चस्त्रिकोणभवनांशगतःशुभैश्च दृष्टःसुहृद्भवनगः स्थितिशक्तियुक्तः । स्त्रीक्षेत्रगौ शशिसितावपरे ग्रहाश्च
पुराशिगाः स्थितिबलपबलाः भवन्ति ॥ ६० ॥ प्राक्केन्द्रगौ जीवबुधौकुजाकी याम्याश्रयौ पश्चिमगश्चकोणः। शशाङ्कशुक्रावुदगाश्रयौ च स्यातां परं दिग्बलिनौ क्रमेण ६१
अहनि गुरुसितार्काः शक्तिमन्तो निशायां शशधरकुजसौराः सर्वदा चन्द्रपुत्रः । शुभगगनचराः स्युःशुक्लपक्षे बलाढ्याः
वहुलमुपगताश्च क्रूरसंज्ञाः बलाढ्याः ॥ ६२॥ स्वकीयाब्दे स्वमासेच स्वचक्रेच स्ववासरे । स्वहोरायाश्च सर्वेपि ग्रहा:कालबलोत्तराः ॥ ६३ ॥ श्रेष्ठं चेष्टावलं तत्र स्थानदिक्कालमम्भवम् । क्रमेण पादहीनः स्याद्वलम्बलनिरूपणे ॥ ६४ ॥ इति सामान्यादेशविधिर्नाम एकादशोऽध्यायः॥
-COLON१ स्वस्मान्ग्रहाः । २ सुतामाती। ३ सम्भवः ।
Aho ! Shrutgyanam