________________
कादयश्चरमश्चिककर्कटांशाः ॥ १४ ॥ चरस्थिरद्विरूपेषु भवनेषु यथाक्रमम् । आदिमध्यान्तगा भागाः स्मृता वर्गोत्तमा बुधैः॥ १५ ॥ राशि द्वादशभागात्म तत्रभागा यथाक्रमम् । तदादिराश्यधीशानां विपश्चिद्भिर्विकल्पितः॥ १६ ॥ राशिस्तु त्रिंशदंशः कुजराविजसुराचार्यशाशाङ्गिशुक्राः राशेरोजस्य बाणेन्द्रियभुजगमुनिप्राणभागाधिनाथाः । शुक्रज्ञाचार्यसूर्यात्मजधरणिमुता युग्मराशेस्तु वायुः सौणीभृव्यालजातिस्मरशरमरुनामंशकानामधीशाः॥१७॥
पृष्टोदया मिथुनसिंहतुलाधराश्च सीमन्तिनी कलसश्चिकराशयश्च । मूर्होदया मकरगोजधनुः कुलीराः
स्यान्मीनराशिरुभयोदयनामधेयः ॥ १८ ॥ तात्कालिकोदयोमूत्तिः कल्यश्च हृदयं भवेत् । द्वितीयन्तु धनं धान्यं तृतीयं भ्रातृविक्रमौ ॥ १९ ॥ तुरियन्तु सुहृद्रेश्म पातालमुखबन्धवः । पञ्चमं पितृधीपुत्राः षष्ठं रुग्वैरवैरिणः ॥ २० ॥ सप्तमं युवतिरागो रन्ध्र मोहोऽष्टमं मृतिः । नवमन्तु तपोभाग्यगुरुधर्मगुणोदयः॥ २१ ॥ दशमं मानकर्मज्ञः लाभस्त्वेकादशंच यः । द्वादशश्च व्ययं मानं सर्व स्वाख्यातसूचकम् ॥ २२ ॥ षष्ठं तृतीयदशममेकादशमथापि च । विद्यादुपवयस्थानमन्यवापचयाभिधा ॥ २३ ॥ सर्वस्वस्वामिभिर्युक्तं दृष्टं वा बलबद्भवेत् । मूत्तिर्बुध गुरुभ्याञ्च युक्तादृष्टा बलोत्तराः ॥ २४ ।।
Aho ! Shrutgyanam