________________
( ६१ )
अष्टमे यायिनो याति यां दिशां हन्ति तद्भवान् ॥ ४ ॥ देवालयेषु पतितः तद्भक्तानुपपीडयेत् । पतितो राजसदने विधत्ते राष्ट्रशून्यताम् ॥ ५ ॥ निर्घातपातः फलति चन्द्रनक्षत्रजातिषु । मासपटकेन वा नोचेद्वत्सरत्रितये न वा ॥ ६ ॥ इतिनिर्घातपातनिर्णयः ।
उल्काद्विजादिवर्णनी सङ्घास्टग्स्वर्णबाणभा । तथैव रुक्षानिर्दिष्टा पतिता चोत्तरादिषु ॥ १ ॥ अनुषङ्गाम्बरे यस्याश्चिरं तिष्ठति दण्डवत् । धृतेव तन्तुभिः खेया चोह्यते सा च राजनुद ॥ २ ॥ लोकसंक्षयमाधत्ते शिखिपिञ्जस्वरुपिणी ।
सर्पवत् सर्पति या च सा स्त्रीणामहिता भवेत् ॥ ३ ॥ छत्रवन्मण्डलाकारा निहन्ति च पुरोहितम् ।
सा धत्ते राष्ट्रशून्यत्वं या स्थिता वंशगुल्मवत् ॥ ४ ॥ या व्यालसूकरसदृकसहविस्फुलिङ्गा । खण्डा च निस्वनवतो जगतः शुभा सा ॥ उल्का यतो ऽभिभवति स्वपुरं वलं वा ।
भूपस्य तस्य तत एव भयं वदन्ति ॥ ५ ॥ उल्का फलति सप्ताहाद्वर्षमात्रणे वा पुनः । चन्दाधिष्टितनक्षत्रवर्गे वा दृष्टजन्तुषु ॥ ६ ॥ इतिउल्कानिर्णयः ।
१ यस्याम् । २ चण्डाश्च ।
Aho! Shrutgyanam