________________
( ६६ ) उक्रमविरोधस्तु शुभाशुभविपाचकः ।। १६ ।। श्वेते तमसि विप्राणां पीडाक्षेमसुदृष्टयः । अग्निवर्णेनिभीतिश्च पीडादहनजीविनाम् ॥ १७ ॥ हरिते रोगबाहुल्यमीतिभिः सस्यसंक्षयम् । अरुणांशुनि पीडा विहङ्गानामवग्रहः ॥ १८ ॥ कृष्णवर्णे तमोमूर्ती शूद्राणांव्याधिमादिशेत् । हरिद्रा विषादश्यामे वा मरकं विदुः ॥ १९ ॥ सापरागौ पुष्पवन्तौ पततो वाप्युदञ्चतः । शारदानाज्च सस्यानां भूपानामन्यकारिणः ॥ २० ॥ यदि पञ्चदशाहेन रविन्दूउपरज्यतः दुर्भिक्षशस्त्रकोपाभ्यां पीड्यते सनृपञ्जगत् ॥ २१ ॥ ग्रहणं गणितानीतं यद्यतिपुष्णं दृश्यते । पञ्चग्रहसमायोगे मृते राजा प्रणश्यति ॥ २२ ॥ सोग्रासः शुभैर्दृष्टः कुर्य्याद दुर्भिक्षमारकौ । सप्ताहान्न शुभावृष्टिः समयेद् ग्रहणे शुभम् ॥ २३ ॥ म्लेच्छा येकुलयां सनाजलधयो मूर्खाः शृगालासनाः शौचाचारविवज्जिताश्चधरताः सर्व्वे च निद्रालवः । विच्छिन्नावयवाः जनाः विवसना: गर्भाशयस्थायिनः क्रव्यादास्तिलमाषजातमभयो राहोस्तु वर्गोभवेत् ||२४|| राहोश्चारफलं ब्रूयाद् दुष्टानामपि जन्मिनाम् । ऋक्षोपराक्तवर्गे च तद्वर्गोपात्तवत्सरे ॥ २५ ॥
इति राहुचरितं नाम नवमोध्यायः ।
अतः परं प्रवक्ष्यामि संकीर्णचरितं लघु । विशोध्य कलिवर्षेभ्यो मानोदारं विचक्षणः ॥ १ ॥
Aho! Shrutgyanam