________________
अनिसन विभज्याप्तमश्विन्यादिक्रमादिशेत् । स्थानं तत्सप्तमङ्ख्यानां मुनीनी त्रिदिवौकसाम् ॥ २॥ माच्यां मरीचिस्तदनु वशिष्टश्चाङ्गिरास्ततः । अत्रिरस्मात्युलस्यः स्यादतः पुलहनामवान् । क्रतुरस्मात्परश्चेति क्रमशो मुनयःस्थिताः ॥ ३ ॥ उत्पातपीडिता एते स्ववर्ग पीडयन्ति हि । पुष्णन्ति वर्गविमलाः मुस्निग्धाःकिरणोज्वलाः ॥ ४ ॥ प्रथमस्य मुनेवर्गे सिद्धमन्त्रौषधाञ्जनाः । द्वितीयस्य सकाम्बोजाः धनिनश्च तपोधनाः ॥ ५ ॥ तृतीयस्य द्विजन्मानः पण्डिताः कवयो जनाः । चतुर्थस्य पयोवाहा गावश्च वनिता जनाः ॥ ६ ॥ पञ्चमस्य भुजङ्गाश्च पिशाचा राक्षस स्तथा । षष्ठस्य फलमूलानि चरमस्य श्रुतिबलाः ।। ७ ।। मरीचिसिमात्रेण स्ववर्गे पाचयेत् फलम् । मासवृद्धि क्रमादन्ये स्ववर्गे फलपाचकाः ॥ ८ ॥ इति सप्तमुनिचारनिर्णयः ।
---:0: -- अगस्यस्योदये वाक्यं कविवभावको भवेत् । अस्यैवास्तमये वाक्यं रवेमङ्गलमिष्यते ॥ १ ॥ विषुवत्यङ्गुलेनादौ लब्धमृक्षादिकं फलम् । शोधयेदुदये वाक्यादस्तवाक्ये तु योजयेत् ॥ २ ॥ यदा भानोः स्फुटन्तत्तत् सदृशत्वम्प्रपद्यते ।
१ कुलपांसनाजलधियोमूर्खाश्रगालासनाः। २ वत्सरात् । ३ संकीति । ४ मानोदारम् । ५ सकलकस्चलपङ्कविषापहः ।
Aho! Shrutgyanam