________________
(
५५ )
कर्कटे प्रकटो राहुः शाकपश्चालकौरवान् । निहन्त्याभीरमल्लांश्च कुरुते चानसंक्षयम् ॥ ४ ॥ सिंहे च सिंहिकामूनुराविर्भूतो वनोद्भवान् । पुलिन्दान् राजदेशीयान् राज्ञश्च परिपीडयेत् ॥ ५ ॥ हन्यात कन्याश्रितो राहुः कविलेखकगायकान् । अस्मकत्रिपुरान्तर्गान सस्यानि च विशोषितः ॥ ६ ॥ राहुस्तुलायां संदृष्टो दशार्णान् भारुकच्छजान् । अवन्तिसिन्धुजान् हन्ति वणिजश्व परान्य जान् ॥ ८ ॥ राहुरष्टमभे दृष्टः विनष्टविषजीविनः । मद्रोदुम्बरचोलीयान्नृपांश्चायुधशालिनः ॥ ८ ॥ धनुषि ग्रहुणे वृत्ते पाञ्चालांश्च विदेहजान् । सायुधा वाजिनोमात्यान् वणिग्वैद्यांश्च पीडयेत् ॥९॥ वीक्षितो मकरे राहुर्मन्त्रिवर्गानि पीडयेत् । मन्त्रौषधेषु कुशलान् झपजातिश्च मायुधान् ॥ १० ॥ उपरक्तोघटे दृष्टः हन्यात सिंहपुरोद्भवान् । बर्वरांस्तस्करान् भारवाहांश्च गिरिनिर्मितान् ॥ ११ ॥ प्रकाशश्चरमे राशौ राहुः सागरवारिजम् । पीडयेद् द्रव्यजातिञ्च प्राज्ञांश्चायुधशालिनः ॥ १२॥ अपमव्येन चलनं राहोस्तस्करभीतिकृत् । सव्येन चलनं भूरि वारिदं क्षेमकारणम् ॥ १३ ॥ सव्येन चलनं राहाश्चौरेभ्यो भयमावहेत् । अपसव्येन चलनं क्षेमकृद् भूरिवारिदम् ॥ १४ ॥ स्पर्शे धूमोदले कृष्ण: सर्वग्रासे तु पिङ्गलः। कृष्णे ताभूप्रभाचापे मोक्षेप्येतत्क्रमो भवेत् ॥ १५ ॥ अयं विभेदो वर्णस्य सम्भविष्णुनिसर्गतः।
Aho! Shrutgyanam