________________
पूर्ववत्समकादि कृत्वा राहुममेन्दुतः । विशोध्य केतुतस्तं वा चन्द्रविक्षेपमानयेत् ॥ २॥ स्फुटभोगं शशाङ्कस्य दानेनाभ्यासयेत्ततः । पुण्यार्थलब्धं लिमादि राहुबिम्बार्द्धमादिशेत् ॥ ३ ॥ बिम्बार्द्धद्वयमन्योन्यं समश्चेद्राहुचन्द्रयोः । संयोगार्द्धं तदुद्दिष्टं तत्सवर्णञ्च वर्गयेत् ॥ ४ ॥ ततो विशोध्यविक्षेपवर्ग मूलं ततो नयेत् ।। ततस्तिथ्यर्द्धमानीय पूर्ववत् सर्वमाचरेत् ॥ ५ ॥ निशाकरस्य बिम्बार्दै विक्षेपेच पृथक् पृथक् । राहुबिम्बदलाभ्यस्ते संयोगान भाजितम् ॥ ६ ॥ क्रमात् सोदृष्टबिम्बार्द्धमिष्टविक्षेप एव च । वृत्तीकृस लिखेत्पूर्वमिष्टबिम्बदलं तथा ।। ७ ।। स्थापयदिष्टविक्षेपं पातनिःस्टतदिङ्मुखे । तदने राहुबिम्बार्द्ध वृत्तीकस लिखेदुधः ॥ ८॥ यावत्प्रच्छाद्यते चन्द्रस्तावदत्रावसीयते । जानीयात् सत्रविन्यासमिति विद्वान् समासतः ॥ ९ ॥
इति चन्द्रोपरागनिर्णय ।
-:0:
स्वर्भानुसेषगो दृष्टः पीडयेदग्निजीविनः । पञ्चालानशूरसेनांश्च काम्बोजांश्च कलिङ्गजान् ॥ १ ॥ गोपालाः गोमिनो गावाः प्राप्ताश्च सुमहत्पदम् । पीड्यन्ते वृषभे राहौ दृग्गोचरमुपागते ॥ २॥ मिथुने ग्रहणे वृत्ते यमुनातटवासिनः । बरस्त्रियश्च पीड्यन्ते राजानश्च कलाविदः॥ ३ ॥
Aho! Shrutgyanam