________________
( ५२ ) विभज्या धनकान्तारैल्लब्या लिप्तिविलिप्तिका ।। ३३ ॥ नतिविक्षेप एष स्यान्मध्यलग्नार्कगोलवान् । तुल्यादिनातिविक्षेपः शशिविक्षेपयोजितः ॥ ३४ ॥ भिन्नगोलस्तु विज्ञेयः परस्परविशोधितः । एवं युक्तो विशुद्धो वा स्फुटविक्षेप इष्यते ॥ ३५ ॥ यदासौ स्फुटविक्षेपः संयोगार्द्धन चेत् समः। अधिको वा भवेत्तस्मात्तदाऊ नोपरज्यति ॥ ३६ ॥ संयोद्धञ्च विक्षेपमुभयं वर्गयेत् पृथक् । संयोगवाद विक्षेप वर्ग हित्वा तदन्तरे ॥ ३७॥ मूलमुसादयेत्तस्मानीवारमथ शोधयेत् । विवरे सनसा क्षुणे धनलब्धस्तु भाजकः ॥ ३८ ॥ तेन मूले हृते लब्धं स्थिसार्द्धघटिकादिकम् । लम्बपत्रिधास्थाप्यमादौ स्थियर्द्धमुन्नयेत् ॥ ३९ ॥ चरमेयोजयेन्मध्ये न दद्यान्न च शोधयेत् । प्रथमःस्पर्शकालः स्यात्तृतीयं मोक्ष इष्यते ॥ ४० ॥ ग्रासकालो भवेन्मध्यो यथा रूपमवस्थितः । विम्बार्द्धद्वयमन्योन्यं विश्लिष्य पुववर्गयेत् ॥ ४१ ॥ ततो विक्षेपवर्गश्चेत् शोधनञ्च विमर्द्धनम् । शोध्यश्चेत् शोधयित्वातः शेषे मूलञ्च साधयेत् ॥ ४२ ॥ पूर्वोक्तभागहारेण तत्र मूले विभाजिते । लब्धा नाडी विनाडी च विमद्यार्धमितीष्यते ॥ ४३ ॥ ग्रासकाले च मोक्षे च विमर्थाई विनिक्षिपेत् । आप्यायनं वहिबिम्बाद्विम नामकल्पते ॥ ४४ ॥ अशोध्ये पर्वलिप्ताभ्यः स्थिवर्धनद्वयान्तरम् । नक्तंदिवा च दिनरूच्चन्द्रयोर्मासनाडिका ॥ ४५ ॥
Aho ! Shrutgyanam