________________
शम्भुनाप्तं क्षिपेन्मूर्ध्नि स्यादेतल्लम्बनं फलम् ॥ २१ ॥ ततो नागाप्तलिप्ताद्यं क्रमात्पूर्वापराह्नयोः । पर्धनाड्याम्रणं देयं शुद्धलम्बनपर्व तत् ॥ २२ ॥ प्रायोभ्यस्तं लम्बफलं पुनर्लम्बफलैर्युतम् । अनघे साप्तलिप्तादि शुद्धलम्बकलादिकम् ॥ २३ ॥ पूर्बाह्ने पर्चनाच्छेदे ततश्चार्काद् विशोधयेत् । सायाह्ने योजयेत् सोयं लम्बनादिस उच्यते ॥२४॥ राहुं लम्बाद्रवेस्तं वा केतोः संशोध्य गोलवित् । विशोध्यं भुज्यतं कोटिं शेषं कृत्वा विलिप्तिकाम् ॥२५॥ नीपेनाभ्यस्य गोलात्मा भाजितं घटिकादिकम् । विक्षेपमाहुः शशिनस्तत्तद्गोलाख्यया श्रुतम् ॥ २६ ॥ अन्तरं विकलीकृस लम्बपर्वदिनार्द्धयोः । धनाभ्यस्ते नरप्राप्ता लिप्तिकाश्च विलिप्तिकाः ॥ २७ ॥ न तेन लिप्तिकाइस कारकां शिरसि क्षिपेत् । तदेतद्राक्षलिप्ताद्यं क्रमात्पूर्वापराह्नयोः ॥ २८ ॥ हित्वा दत्वा च लम्बार्के मध्यलग्नस्फुटं नयेत् । गोलपादविधिं तत्र प्राकृत्वाकलीकृते ॥ २९ ॥ विभज्यशम्भुनालब्धं नतिज्यागणना भवेत् । सारश्शूरश्शरः पुत्रो धन्यो मान्यः प्रियः सना ॥ रत्नञ्चेति नवते तु खण्डानतिगुणाः स्मृताः ॥ ३० ॥ लब्धज्यां पूजयित्वाथ शेषञ्चान्यगुणाद हृते । शम्भुनैवसमाहृस लब्धञ्च शिरसि क्षिपेत् ॥ ३१ ॥ नतिज्याघटिका चैषा यदि चात्तरीदग्भवा । अक्षे विश्लिष्यते ऽन्योन्यं भवेद्याम्ये तु योजयेत् ॥ ३२॥ एवञ्च संस्कृते तत्र भुक्त्यन्तरविवादिते ।
Aho! Shrutgyanam