________________
( ५० ) पर्व्वस्योत्तरलिप्तादि योजयेद् द्वादशात्मनि । निशाकरेतु नदिदं तिथिशेषञ्च योजयेत् ॥ ९ ॥ सूर्यचन्द्रमसोश्चैवं समो नाम भविष्यति । अथेचैवं क्रियाभिज्ञस्तमकर्म्म समाचरेत् ॥ १० ॥ चन्द्रस्फुटो यदि महान् योगोस्यउदाहृतः । स्फुटो यदि महान् भानोविद्याद्योगमनागतम् ॥ ११ ॥ एतयोः स्फुटभोगाभ्यान्तिथिशेषं पृथक् पृथक् । अभ्यस्य विवरेन्यस्ता विलिप्ता स्फुटयो स्तयोः ॥ १२ ॥ संयोजयेच्चतुर्द्दश्यां पञ्चदश्यान्तु शोधयेत् । सदृशावर्कशशिनौ शतमेवं कृते सति ।। १३ ।। स्फुटभुक्तिं सहस्रांशोश्चापेनास कातरैः । भाजयेल्लिप्तिकाद्यं तद्भानोर्बिम्बदलम्भवेत् ॥ १४ ॥ दिनाभ्यस्तं सुधाधाम स्फुटभोगं रसास्थिकैः । आहस घटिकाद्यन्तादिन्दार्बिम्बार्द्धमादिशेत् ॥ १५ ॥ संयुक्तमतयोरर्द्धसंयोगार्द्धमिति स्मृतम् । अथकालविशुद्ध्यर्थं लम्बपर्व्वं विधीयते ॥ १६ ॥ पूर्व्वा पर्व्वनाच्छेदे दिनार्घात्पर्व्वं शोधयत् । पच्छेदे पराले चेद्दिनार्द्धं पर्व्वणस्यजेत् ॥ १७ ॥ शेषन्तु विकलीकृस धनैर्हित्वा नखैर्हृते । प्राप्तं लिप्तादि तत्रापि नीचलम्बास्तु तारकाः ॥ १८ ॥ पादः समश्चेद्विषमं सक्त्वा शेषं कलीकृतम् ।
विभज्य शम्भुना लब्धं लम्बनज्यागुणो भवेत् ।। १९ ।। मृगो नागो वरं शय्या नीपस्वीणोपुनर्ननु । ज्ञानञ्चेति नवैते तु खण्डालम्बगुणाः स्मृताः ॥ २० ॥ लब्धज्यां पूजयिलाथ शेषञ्चान्यगुणाद् हृते ।
Aho! Shrutgyanam