________________
( ४६ )
वैदूर्यकान्तिविमलः शुभदः प्रजानां । बाणात सोकुसुमवर्णनिभः प्रशस्तः । यञ्चापि वर्णमुपगच्छति तत्सवर्ण सूर्य्यात्मजः क्षपयतीति मुनिप्रवादः ॥ ३३ ॥ इति शनैश्चरचरितं नामाष्टमोऽध्यायः ।
नवमोऽध्यायः ।
अथराहोश्चरितं समासेन प्रकाश्यते ।
अर्थः : फलममुष्य स्यात् प्रमाणं क्षयतीर्थकः ॥ १ ॥ ऋणयाब्दे विलिप्तानां मधुको भागहारकः । ऋक्षी मण्डलं सक्त्वा स्फुटमेतस्य निर्दिशेत् ॥ २ ॥ मण्डलार्द्धमिहक्षिप्त्वा स्फुटं केतोश्च साधयेत् । मद्रयेष्वर्केन्दुतुङ्गानां तमसश्च स्फुटे क्रमात् ॥ ३ ॥ तोयञ्च प्रबलं छायारूपधाराञ्जनं सजेत् । अथ वा बीजकर्मैव पूर्वोक्तम्फलमिष्यते ॥ ४ ॥ अमावस्यादिवापर्व्वपरिच्छेदः समीपगः । अङ्गत्रयमिदं दृष्ट्वा रविग्रासं विचिन्तयेत् ॥ ५ ॥ भानुनेन्दुं कलीकृस पूर्व्ववत् पर्व्व साधयेत् । अवशेषं परिज्ञाय ततो लिप्ताद्यमाहरेत् ॥ ६ ॥ प्रतिपत् पर्व्वणोरन्यतरसम्बन्धितद्भवेत् । ततो गोक्षुण्णतो नाभिप्राप्तयन्तरलिप्तिका ॥ ७ ॥ प्रथमान्तरलितादि शोधयेद्भास्करस्फुटाव | एतञ्च तिथिशेषञ्च शशिनस्तु विशोधयेत् ॥ ८ ॥
७
Aho! Shrutgyanam