________________
( ४३ ) भृगुज ध्रुवका कथिका सयौ | सुतनु खरणु धनिनां तनुत् || ३ || सिताद्यन्ता नृपःसप हंसा क्षेपासुभूतयः । सिद्धामायस्तप: साकः कालोवाक्यमितिक्रमात् ॥ ४ ॥ सितमध्ययशोदेहो धनपालः स सर्व्वनुत् | लक्षणानुचरो नान्यो हंसप्रायोविमन्वनुत् ॥ ५ ॥ नागवीरोत्तरं वाक्यं स्फुटभोगो तिशीघ्रजः । सलिलान्तातिरिच्यते नेत्रं वक्रगुणः स्मृतः ॥ ६ ॥ द्वितीयस्फुटकेन्द्रश्चेत् कनकाभप्रियोयदाः । केन्द्रेदिनं वा वासश्रीर्वकारम्भोतदासितः ॥ ७ ॥ तृतीयस्फुटकेन्द्रश्चेत् कुमुदालावकोयदा । केन्द्रे दिनंवा तत्कालस्तदासौ विनिवर्त्तते ॥ ८ ॥ शुक्रस्य वक्रयात्रायामेके गणितवेदिनः । उदयास्तमये तस्य देवभानुस्त्यजन्ति च ॥ ९ ॥ भानोर्भुजा फलं केचिद्दक्षिणोत्तरगोलयोः । हेयं देयञ्च मन्यन्ते स्फुटयोः शुक्रसौम्ययोः ॥ १० ॥ विचरन्नसुराचार्यो भरण्यादिचतुष्टये । अङ्गवङ्गकलिङ्गेषु भयकृच्च सुभिक्षकृत् ॥ ११ ॥ चतुष्टये च रौद्राये चरन् सस्याम्बुसम्पदे । विप्राणामशुभाय स्याद्विशेषात् क्रूरचेतसाम् ॥ १२ ॥ मघादिपञ्चके सस्यप्रणाशं कुरुते खितः । क्षुच्चौरभयदो नीचजनस्योन्नतिमावहेत् ॥ १३ ॥ स्वायादिभवये तिष्टन्नभयं कुरुते नृणाम् । भिनत्ति मित्राण्यन्योन्यब्रह्मक्षत्रियवृद्धिदम् ॥ १४ ॥ ज्येष्ठादिपञ्चके शुक्रः कुर्य्यात् क्षुद्रोगतस्करान् ।
Aho! Shrutgyanam