________________
( ४ ) संवत्सरा विष्णुयुगे शुभदाश्चोत्तरोत्तरम् ॥ ३७ ।। एषु सर्वेषु भवति निर्भयं निरुपद्रवम् । सम्पन्नसस्यसंहृष्टप्रजाराजान्विता भूः ॥ ३८ ॥ अङ्गिराः श्रीमुखोभावो युवाधातेति वत्सराः । युगे द्वितीये प्रथमं त्रयं भद्रं समीपरे ॥ ३९ ॥ त्रिवाद्येषु सुदृष्टिश्च निरातङ्कभयाः प्रजाः । समा दृष्टिईये तस्मिन् किन्तु रोगा: रणागमः ।। ४० ।। ईश्वरोबहुधान्यश्च प्रमाथी विक्रमो दृपः।। पञ्चैते वत्सरा: विद्भिराखण्डलयुगे स्मृताः ॥ ४१ ।। आदिमौ कृतदेशीयौ तृतीयः पापपाकदः । सुभिक्षकारकावन्त्यौ किन्तु रोगभयप्रदौ ॥ ४२ ।। चित्रभानुः शुभोभानुस्तारणसाथपार्थिवः । व्ययश्चेति क्रमादेते वत्सरा दाहनेयुगे ॥ ४३॥ आधः श्रेष्ठः परोरुनः तृतीयो भूरिवारिदः। चतुर्थः सस्यसंरक्षी पञ्चमः सततोत्सवः ॥४४॥ सर्वजित् सर्वधारीच विरोधी विकृतःखरः। पञ्चैते पञ्चमेशस्तो द्वितीयोनैवचापरे ॥ ४५ ॥ नन्दनोविजयः षष्ठे जयमन्मथ दुर्मुखाः। वयोत्र शास्ताः प्रथमे द्वावन्यौ फलमध्यमौ ॥ ४६ ।। हेमलम्बो बिलम्बी च विकारीसर्चरील्पवः । पञ्चैतारवादो विद्भिर्युगेपैत्रे विनिश्रिताः ॥ ४७ ॥ इति प्रायः प्रचुरपवना दृष्टिराधेतु वर्षे । मन्दं सस्यं न बहुसलिलं वत्सरेतो द्वितीये । अत्युद्रेगः प्रचुरसलिलः स्यात्तृतीयश्चतुर्थो दुर्भिक्षायल्पव इति ततः शोभनो भूरितोयः॥ ४८ ॥
Aho! Shrutgyanam