________________
इत्याग्नेयादिवर्षफलम् ।
कलेर्वपात्परारम्भं हित्वा शेषं द्विधा कृतम् । ऊर्ध्वस्थ भानुनाभ्यश्चत्परं लोपहतं द्विधा ॥ २६ ॥ अधःस्थं द्विगुणीकुर्यंत नीचाप्तमुपरिक्रमात् । उपरिष्ठात्ततोधास्थमन्दं मासोनगाः हृताः ॥ २७ ॥ मुनीक्षा निश्चलं तस्मिन् दिवसादि विनिक्षिपेत् ।। मूलाब्दे तदिदं क्षिप्त्वानूत नैमण्डलं सजेत् ॥ २८ ॥ युगानि मुनिलब्धानि शेषास्तु क्रमशः समाः। वैष्णवं जैवमैन्द्रञ्च ज्वलनं त्वाष्ट्रमेव च ॥ २९ ॥ औत्तरं प्रौष्ठपादञ्च पैत्रं वैश्वमथैन्दवम् । इन्द्राग्निदेवमश्विन्यं भाग्यञ्चेति द्विपक्रमात् ॥ ३० ॥ वैष्णवादीनि चत्वारि प्रशस्यन्ते युगानि हि । वाष्ट्रादीनि च चत्वारि मध्यमानि विदुर्बुधाः ॥ ३१ ॥ ऐन्दवादीनि चत्वारि हीनानीति विनिर्दिशेत् । एतेषु युगमेकैकं पञ्चाब्दप्रमितम्भवेत् ॥ ३२॥ यदत्र संस्कृतं वर्षमपरिसक्तमण्डलम् । धनेन ताडयित्वा तान्मासांश्च दिवसान्यपि ॥ ३३ ॥ दत्वोपरि यथा शेषमुपरिष्ठान्नवाहृतम् । वस्वादितारावक्रः स्याच्छेषांशे गुरुनिश्चितः ॥ ३४ ।। आद्यमंशं धनिष्टायां प्राप्यमाघं यदा गुरु । उदयं याससौ विष्णुयुगे प्रथमवत्सरः ॥ ३५ ॥ प्रभवाख्यमिदं वर्ष कचित् कचिदष्टिकः । वातानिश्लेष्मा कोप: स्यान्नातिदुःखकरन्नृणाम् ॥ ३६ ।। क्रमेण विभवः शुक्लः प्रमोदश्च प्रजापतिः।
Aho! Shrutgyanam