________________
( ३८ ) सस्यहानिरनादृष्टिभूभुजाम्भूरि वैरिता ॥ १३ ॥ पौष्ये वर्ष जगद्धिर्वीतवैराश्च भूभुजः । सिद्धयन्ति पौष्टिकारम्भा धान्यार्घस्त्रिगुणो भवेत् ॥१४॥ माघे वर्षे धनारोग्यं दृष्टिधान्यार्घटद्धयः । उदयः सर्वभूतानां सुलभा मित्रसम्पदः ॥ १५ ॥ फाल्गुनी वत्सरे वृष्टिः सस्यक्षेमाकचिद्भवा । दस्युकोपो नृपाश्चोग्राः वैरूप्यमपि योपिताम् ॥ १६ ॥ चैत्रेब्दे दुर्लभा दृष्टिः प्रियमन्नं नृपो मृदुः। कोशधान्यविद्धिश्च पीडा रूपवतामपि ॥ १७ ॥ वैशाखेब्दे जगत् सर्व तुष्टिधपपरायणम् । सम्पधन्ते च सस्यानि नृपाणामभयं तदा ॥ १८ ॥ ज्यैष्ठे कुलधनश्रेणी श्रेष्ठा धर्मरताः नृपाः। पीड्यते सस्यजातिश्च शमीकङ्गविवजिता ॥ १९ ॥ आषाढे सस्यसम्पत्तिः क चिद् दुर्टष्टिरेव च । स्त्रोषु सक्ताश्च भूपालाः क्षेमं प्रसन्तवासिनाम् ॥ २० ॥ श्रावणेब्दे नृपाः क्षेमाः सम्यक् सस्यश्च पच्यते । पीड्यन्ते क्षुद्रपापण्डाः तद्भक्ताश्चैव जन्तवः ॥ २१ ॥ वर्षे भाद्रपदे पूर्वसस्यवल्ला जसम्पदः ।। कचित् सुभिक्षमभयं तद्विरुद्धं क चिद्भवेत् ॥ २२ ॥ वर्षे चाश्व युजे वारि भूरि वर्षति वारिदः । प्रजाः प्रमुदिताः क्षेमं सुभिक्षञ्च दिन दिने ॥ २३ ॥ ऋक्षस्योत्तरपार्श्वन विचरन् वृहतां पतिः । क्षेमारोग्यसुभिक्षाय विपरीताय याम्यशः ॥ २४ ॥ वधो भूपस्य निर्दिष्टो दिवादृष्टे वृहस्पतौ। धूमायमाने रात्रौ वा दृष्टिनिग्रहमादिशेत् ॥ २५ ॥
Aho! Shrutgyanam