________________
( ३४ ) निष्पन्नान्यपि सस्यानि हरन्त्यविनयात् परे । भूपैर्निस्वीकृतो लोको न सम्यक् परिपाल्यते ॥ १४ ॥ व्यथन्ते व्याधयो भूयो भुजङ्गाश्च विषोल्वणाः ॥ सम्बत्सरे च मासे च वारे च वसुधा भुवः ॥ १५ ॥ इति वर्षाधिपतिफलम् ॥
तापी शोणः पयोष्णी त्रिदशपतिसरिद्गोमतीवेत्रवत्र्य । चोलानाशिक्यविन्ध्यक्षितिधरनिलयाः ये विदेहाश्चकाशी देशाः कोङ्कणाख्या मलयपरिसराः कुन्तलाः केरला वा मध्याः भूपाः कुमाराः सकटुकमखिलं सौगते चापि भौमे १ भौमस्य चारे तद्वर्गे नक्षत्रविषयेषु च । मासेनवाष्टभिर्मासैर्विदधाति शुभाशुभम् ॥ २॥ विपुलविमलमूर्तिः किंशुकाशोंकवर्णः स्फुटरुचिरमयूखस्तप्तताम्रमभाभः । विचरति यदि मार्गञ्चोत्तरं मेदिनीजः शुभकृदवनिपानां हार्दकृच्च प्रजानाम् || ३ || इति भौमचरितनाम चतुर्थोध्यायः ।
पञ्चमोऽध्यायः ।
अथ मस्तूयते सोमपुत्रस्य चरितं लघु । अनुनीतिफलं तस्य प्रमाणं दिवसाधिपः ॥ १ ॥ कर्पूरो नीपवृद्धाब्दे धनलिप्ता विभाजकः । ध्रुवोच्चं रोहिणेयस्य शुभांशक इति स्मृतम् ॥ २ ॥
Aho! Shrutgyanam