________________
( ३५ )
शशिजा ध्रुवका वरगश्चमती । विजयं सय गतिनुव खरनुतो ॥ ३ ॥ बुधाद्यन्तस्तदाक न्या सोमो नान्ये नदीधनतो । क्रूरोथानन्तरोर्थज्ञो नदीमानमिति क्रमात् ॥ ४॥ बुधमध्यादधोगौरी युधि सर्पो नदीनृपः । धम्मभानुर्वने नूनं सलिलान्ते द्वयन्यजेत् ॥ ५ ॥ आशयोरुभयोरेव बुधस्यास्तादयौ मतौ । एतस्यान्तरवाक्यञ्च नृपमौलिरितिस्थितम् ॥ ६ ॥ उदयोस्तमयोर्वास्य यदा स्यात् पश्चिमाम्बरे । सप्तमोदयवाक्येन संस्कृतेन विवर्द्धयेत् ॥ ७ ॥ यदा स्यात् पूर्वदिग्भागे तदार्कोदयसंस्कृतम् । वाक्यन्ताधनराशिःस्याच्छेषः प्राग्वदिशः स्मृतः ॥ ८ ॥ अतिशीघ्रस्य भौमस्य स्फुटभोगविनाडिका । भिन्नासन्ततिरिच्येते वक्रज्यानयनम्भवेत् ॥ ९॥ द्वितीयस्फुटकेन्द्रश्चेत् सोमहारपटुर्यदा ।
धावनं केन्द्रचारो वा वक्रारम्भी तदा बुधः ॥ १० ॥ तृतीयस्फुट केन्द्रेश्चेदशमी कार्त्तिकी यदा । अर्थः केन्द्रदिनं वापि तदासौ विनिवर्त्तते ॥ ११ ॥ नोत्पातरहितश्चान्द्रि रुदयत्युपितो यदि । अर्धस्य वृद्धिं हानि वा करोयग्न्यि निलाम्बुकृत् ॥ १२ ॥ श्रवणापाढवैशाखमघा पौष्णषु चन्द्रजः ।
दृष्टो लोकस्य भयदं प्रोषितश्शोभनम्भवेत् ॥ १३ ॥ माघेश्वयुजे दृश्येत कर्तिके वापिचन्द्रजः । चोराग्निशस्त्ररोगान् क्षुद्रयानि कुरुततदा ॥ १४ ॥ धनिष्ठाविश्व देवेन्दुरोहिणीशवणेषुच । विमर्थविचरन् सौम्यो रोगादृष्टिभयावहः ॥ १५ ॥
Aho! Shrutgyanam