________________
सप्ताष्टनवमःषु वक्रमुष्णं महीभुवः । उदयाद् वदित्तीनां पीडाकरमिदं मतम् ॥ १ ॥ वक्रमशू मुखानां हि दशादर्भत्रयेपि च । उदयाद्रिसान् हन्ति कुर्याद्रोगान् नवग्रहम् ॥ २ ॥ वक्रत्रयोदशादि द्वितयोव्याल उच्यते । सूर्योदयाव्यालेभ्यो भयं धत्ते मुभिक्षताम् ॥ ३ ॥ वकं रक्ताननं पञ्च दशात् पोडशादपि । तदा सुभिक्षासमयो मुखरोगश्च जायते ॥ ४ ॥ तत्खड्मुशलं सप्तदशादष्टादशादपि । अष्टिशस्वदस्युभ्यः पीडां धत्ते भयो त्तरम् ॥ ५ ॥ भाग्यादिद्वितये दृष्टो विश्वे यदि निवर्तते । अस्तमायाति रोहिण्यां भौमत्रैलोक्यघातकः॥६॥ श्रवणाभ्युदितः पुष्ये वकृद्राजपीडकः । यत्रःऽभ्युदितस्तत्र जातान् हन्ति जनान् कुजः ॥ ७ ।। श्रवणादिसहस्तैकपादमूले मघासु च । रोहिण्याश्विविशाखामु भौमचारोदयाहितः ॥ ८॥ उत्तरत्रितये मूलप्रजापसेन्द्रविष्णुषु । विचरन क्षितिजो वारी वाहानामुपघातकृत् ॥ ९ ॥ मघानां यदि मध्येन निर्गच्छेल्लोहितस्तदा । विनश्येत् पाण्डुराज्यन्तु शस्त्रानादृष्टिभिर्भयम् ॥ १० ॥ भिन्दन् मधां विशाखां वा भौमो दुर्भिक्षकृन्मतः । भिनत्ति रोहिणीं यहा कुरुते मरकं नृणाम् ॥ ११ ॥ रोहिणीयाम्यगो भौमी दृष्टिमञ्च नाशयेत् । धूमायमानः सशिखः पारियात्रान् विनाशयेत् ॥ १२ ॥ भयं सुमरुतो वह्निर्जुम्भं नो पश्यते हतः ॥ दृष्टिःकुत्रचिदेव स्यात् सस्यं शुष्यति नूतनम् ॥ १३ ॥
Aho ! Shrutgyanam