________________
( ३२ ) तृतीये क्रवनिर्याणमेवं विद्याद्विचक्षणः ॥५॥ स्फुटप्रहश्चे च्छीघ्रोच्च ग्रहतोनवमो यदा । वक्रारीम्भतदाप्रायः पञ्चमश्चेन्निवर्तते ॥ ६ ॥ अतिशीघ्रस्य भौमस्य स्फुटभोगविनाडिकाः॥ समयान्तातिरिच्येत न्यूनता तु गतेबंशात् ॥ ७॥ चलोच्चतस्तमुद्धस तृतीयस्फुटमध्यमम् । विलिप्तीकृस विभजेत् तध्रुवस्फुटभोगयोः ॥ ८ ॥ विवरेण ततो लब्धं केन्द्रे गतिदिनम्भवेत् । विलिप्तीकृस वक्रार्द्ध विवरेण विभाजिते ॥९॥ लब्धं वक्रार्थदिवसं तदिदं भवति त्रिधा । मूनि वक्रगुणश्शोध्यस्तृतीये योज्य इष्यते ॥ १० ॥ एतेषु त्रिषु यद्यको राशिः केन्द्रदिनैस्समम् । तेविद्यात्क्रमावस्यादिमध्यान्तगं ग्रहम् ॥११॥ भूमिपुत्रस्य वक्रज्या नाभिरिसभिधीयते । अथ चैवं विजानीयाद्वक्रारम्भनिवर्तनम् ॥१२॥ चतुर्थस्फुटकेन्द्रश्चेज्जीवशर्मप्रियो यदा । वत्सलः केन्द्रचारो वा वक्रारम्भी तदाकुजः॥ १३ ॥ चतुर्थस्फुटकेन्द्रश्चेत् सामप्रभवयोगदः । चन्द्रामं केन्द्रचारो वा तदासौ विनिवर्तते ॥ १४ ॥ सवर्णमिष्टकेन्द्रस्य वक्रान्तोक्तयोरपि । विश्लषं विभजेद भुक्तयोविवरणोच्चमध्ययोः ॥ १५ ॥ दिनादिराप्यते काले वक्रारम्भावसानयोः । हीनैश्च केन्द्रे भावित्वं तयोर्भूतत्वमन्यथा ॥ १६ ॥ चारोदयास्तवक्रादौ सर्वेषां गणितक्रिया । इयमेव विशेषस्तु तत्र तत्रैव वक्ष्यते ॥ १७ ॥
इति गतिनिर्णयः।
Aho ! Shrutgyanam