________________
( ३१ ) किश्चिदूनान्तु विश्लिष्य लब्धमस्तमये कलाः ॥ ६॥ ज्ञीप्रस्तोदयं व्यक्तं ग्रहाद् भास्करमुत्त्यजेत् । शेषे विलिप्तिकामूत्तौ नास्तो वाक्यं महीयसी ॥ ७ ॥ यदा तु वाक्यं देशीयस्तदार्कात् सप्तमस्य तु । राशेः संस्कृतवाक्येन ताडयित्वाथतम् पुनः ॥ ८ ॥ अनूनपादैविभजेत् ततो लब्धविनाडिकाः। समाश्चेत् पूर्ववाक्येन तदा यातोस्तमिष्यते ॥ ९ ॥ अर्कग्रहान्तरं कृत्वा विकलं वाक्यतस्यजेत् । शेषगसन्तरेणाप्तं दिनादिकमुदेद्यतः ॥ १० ॥ उदयद्रष्टुकामस्य स्फुटं भास्करतस्यजेत् । शेषे विलिप्तिकामूर्ती वाक्यादूने तु नोदितः ॥ ११ ॥ देश्यश्चेदुदितस्तत्तु यो राशिर्भास्कराश्रितः । तस्य संस्कृतवाक्येन ताडयित्वाथ पूर्ववत् ॥ १२ ।। लब्धाः विनाडिकाः पूर्ववाक्येन सदृशाः यदि । तदादिगोचरो भौमस्तादृशौ धिषणासितौ ॥ १३ ॥
इति उदयास्तमयनिर्णयः। मध्यमस्य च शुद्धस्य स्फुटस्य च यदन्तरम् । तदर्कीकृस संशोध्यमुभयोरधिकान्तयोः ॥ १॥ शुद्धञ्चलोञ्चतस्यत्वा शेषं कुर्याद्विलिप्तिकाम् । ज्ञानप्रतापैराहृय लब्धा ग्रहगतिर्भवेत् ॥ २॥ आद्या शीघ्रा परा मन्दा वक्रा नाम ततः परम् । अतिवका नु वक्रा च षष्ठी चारगतिः क्रमात् ॥३॥ तृतीयस्फुटसंसिद्धौ पादश्चेत् प्रथमो भवेत् । तदाचारगति विद्याच्चतुर्थं चेत् पदम्भवेत् ॥ ४॥ वक्रारम्भं द्वितीयञ्चेदतिवक्रगति तथा ।
--
-oco
Aho ! Shrutgyanam