________________
तामुच्चभोगतो हित्वा परिशेषेण ताडयेत् । तुरीयस्फुटसंसिदो वर्तमानगुणं पुनः॥ १९ ॥ ऊर्णनाभेन तं हृत्वा फलन्तु ध्रुवभोगतः । आद्यन्तपादयोर्देयं शोध्यं मध्यमपादयोः ॥ ३० ॥ वर्तमानगुणस्त्वत्र यदि शोध्यं भविष्यति । अनाहृत्य तदा पादौ ब्यवस्था योजयेत् सदा ॥ २१ ॥ अध्यध्रुवभोगश्चेत् विश्लेषस्साम्प्रतं तदा । स्फुटभुक्तिरियं यहा स्फुटयोरन्तरम्भवेत् ॥ २२ ॥ अतीतमनतीतञ्च संक्रान्तिञ्चार्कवद् वदेत् । हृतास्फुटविलिप्तासु ज्ञानपादेन राशयः ॥ २३ ॥ छेदतशशोधितं शेषं भुक्तेरल्पतरं यदि । तदा वक्रस्य सङ्क्रान्तिनाडिः प्राग्वद्विधीयते ॥ २४ ॥
इति सक्रान्तिनिर्णयः ।
ग्रहाः कुजादयः सूर्यस्फुटादभ्यधिकस्फुटाः । प्रतीच्यां दिशि दृश्यन्ते प्राच्यामूनस्फुटाः पुनः ॥ १॥ कुजोस्तमेति वारुण्यां पूर्वस्यामुदयसथ । विद्यादन्तरवाक्यञ्च भौमस्य निधिशोभनम् ॥ २॥ उद्धृस भौमतः सूर्य शेषकुर्य्याद्विलिप्तिकाम् । सा चेन्महीयसी वाक्याद् ग्रहो नास्तमितो भवेत् ॥३॥ अल्पीयसी यदि भवेत् तदा यातोस्तमिष्यते । किश्चिदना यदि भवेदस्तमायाति तद्दिने ॥ ४ ॥ हित्वा वाक्ये महीयसीस्य विवरेण विभाजयेत् । लब्धं दिबसनाड्याद जानीयादस्तमेष्यति ॥५॥ वाक्यादल्पीयसी हित्वा दिनादस्तस्य भाजितम् ।
Aho ! Shrutgyanam