________________
( २७ )
घनोदयो यदीशानकोणे स्यादृष्टिरुत्तमा । तत्तद्दिशि समुद्भूतो वायुश्चेत्तत्फलोदयः ॥ १४ ॥ मासानां श्रावणादीनामीभव्यक्षरमण्डितान् । घटान् गन्धपयः पूर्णानुदगादिप्रदक्षिणान् ॥ १५ ॥ महावृत्तेन मन्त्रेण परिजप्याधि वासयेत् । अन्येद्युर्घनदृष्टिनः पूर्णशशोभनदृष्टिदः ॥ १६ ॥ नृपाणाञ्चाथ देशानां नामान्यालिख्य पूर्व्ववत् । इममेव विधिं कुर्य्यात् तेषां भाग्यादिवीक्षणे ॥ १७ ॥ प्रविशत्सु व्रजङ्गोषु विशेद्यद्यग्रतो वृषः । पशुर्वा कृष्णवर्णात्मा विज्ञेया दृष्टिरुत्तमा ॥ १८ ॥ शबलो यदि मध्योसावधमो धवलो यदि । प्रविशेद्रक्तवर्णश्चेद् व्याधिभिः पीड्यते मजा ॥ १९ ॥ इति रोहिणीयोगः ।
यवगोधूमशाल्यादि शस्यनिष्पत्तिरुत्तमा । पाल्यते भूमिपालैश्च भूमिर्नातिकरक्षता ॥ १॥ गावो बहुपयस्विन्यो वारिदा भूरिवारिदाः । समृद्धिः कुसुमानाञ्च काले हारिणलक्षणे ॥ २ ॥ इति वर्षाधिपतिफलम् ।
पश्चार्द्धेन सरस्वती मलयजश्रीचन्द्रभागानदी स्वर्णालूप पुलिन्दशैलविपिनं सिद्धाश्वविद्याधराः ।
१ मलयतः श्रीचन्दभागानदी ।
Aho! Shrutgyanam