________________
रोहिणीमुत्तरेणेन्दुः स्पृशन् याति यदा तदा। दृष्टयः शोभनाः किन्तु सोपसर्गा प्रजा भवेत् ॥२॥ रोहिणीमस्पृशन्निन्दुरुत्तरेण जेद् यदा। तदा च दृष्टिर्जगतश्शिवञ्च बहु निर्दिशेत् ॥ ३ ॥ रोहिणीशकटारूढे चन्द्रे निःशरणो जनः । पीड्यमानोन्नपानार्थ शिशुभिः क्वापि गच्छति ॥४॥ पूर्वोदितस्य शशिनो रोहिणी यदि पृष्ठतः । चरेच्छुभं तदालोके स्त्रिययस्तु पुरुषानुगाः ॥ ५ ॥ पूर्वोदितायाः रोहिण्याः पृष्ठतो विचरन् शशी । कुरुते कामिनं लोकं प्रमदानां वशे स्थितम् ॥ ६ ॥ रोहण्यां यदि शीतांशुराग्नेयीं दिशमाश्रयेत् । तत्रोपसर्गः सुलभो भस्मपावकसम्भवः ॥ ७॥ नैर्ऋसामाश्रिते सोमे शस्यानि निहतानि च । निचयं यन्ति वायव्यां मध्यमानि भवन्ति हि ॥ ८॥ यथेष्टानुदिशां चन्द्रे शोभना दृष्टिसम्पदः। अभिद्धिःतदाघस्य शिवञ्च जगतो भवेत् ॥ ९ ॥ छादयेद्यदि बिम्बेन रोहिणी शकटं शशी। तदानराधिराजस्य विदधावि वधं वधूः ॥ १० ॥ रोहिणीसहितश्चन्द्रो धनच्छन्नाम्बरेयदि । न लक्ष्यते महाव्याधिर्जलं स्यञ्च शोभनम् ॥ ११ ॥ उदकस्थो यदि पौरस्समेघः स्यं शुभं तथा । आग्नेय्यामग्निकोपश्च याम्ये शस्यक्षयो भवेत् ॥ १२ ॥ नैर्ऋयां मध्यमं शस्यं वारुण्यां दृष्टिकारणम् । वायव्यामधिका दृष्टिः सौम्यायां दृष्टिरुत्तमा ॥ १३ ॥
१संस्वायाति यदा तदा ।
Aho ! Shrutgyanam