________________
(
२४ )
नवेन्दुर्यान्यतिक्रान्तः पड़पौर्णाद्यान्यनागतः । मेषादिद्वादशक्षीणि समोवसतिचन्द्रमाः ॥ ४ ॥ याम्येन शुक्रादिचतुष्टयस्य यदा शशीचारवशेन याति । बीजान्यरण्यम्बुचराश्चहन्याद्विशेषतः पावकभीतिकृच्च ॥ ५ ॥ पापो दक्षिणभागिन्दुरनुराधाविशाखयोः । प्रशस्तो मध्यनिर्यातः पितृदेवविशाखयोः ॥ ६ ॥ भूयोभानां ग्रहाणाञ्च पापो याम्यगतः शशी। पादक्षिण्योत्तरगतो राजानाञ्च प्रियङ्करः ॥ ७ ॥ भौमस्योत्तरगे चन्द्रे क्षेत्रियाञ्च याविनाम् । पार्वती बलशालिनां जयो धान्यञ्च वर्द्धते ॥ ८ ॥ सौम्यस्योदग्गतः सोमः कुरुते कोशवर्द्धनम् । पूर्णानि सस्यन्दानि पौरपीतिमुभिक्षकृत् ॥ ९ ॥ गुरोरुत्तरगश्चन्द्रो ब्रह्मक्षत्रियधीधनम् । पुष्णाति मध्यदेशस्य सुभिक्षां कुरुतेतराम् ॥ १० ॥ भृगोरिन्दुरुदग्यायी गजवाजी धनुष्यताम् । जयकृत्सस्यन्दानि पुष्णाति निरूपद्रवम् ॥ ११ ॥ चरन् प्रदक्षिणीकृस प्रभाकरसुतं शशी । पौराणां वुधमाधत्ते क्षत्रियाणां जयश्रियम् ॥ १२ ॥ यदिदंफलमादिष्टमुत्तरस्थे निशाकरे । ग्रहाणामपसव्यस्थे सर्वमेतद्विपर्ययम् ॥ १३ ॥ प्रसन्तांस्तु नृपांश्च हन्त्युडुपतिः शृङ्गे कुजेनाहते शत्रुक्षुद्भयकृयमेन शशिजेनाष्टिदुर्भिक्षकृत् ।
१ देसा।
२ क्षत्रियानावयायिनाम् ।
Aho ! Shrutgyanam