________________
( २३ ) दिवाकरे तत्स्पृशि मीनमेषयोः शशीशिशुदक्षिणतुङ्गशृङ्गवान् । घटोक्षयोस्तुल्यषाणवानतोऽ वशेषराशिश्च यमुत्तरोन्नतः ॥ १॥ प्रतिपच्छशिनः शृङ्गं तुङ्गमुत्तरतो मनाक नौका चेन्नाविकापसः शेषाणां शोभना वचः ॥ २॥ अझेनतौ लागुलवत् पीडातदुपजीविनाम् । मुभिक्षञ्च महीपानां शश्वत् प्रीतिरनुत्तरा ॥ ३ ॥ अझैन्नतं यदा याम्यं शृङ्गं दृष्टहलाह्वयम् । बलमुद्योजयेदाशु पाण्ड्यराज्यं निहन्ति च ॥ ४ ॥ उदिते दण्डवच्चन्द्रे गवां पीडा नृपोग्रता। समयोः शृङ्गयोः क्षेममुभिक्षदृष्टयः शुभाः ॥५॥ मही यस्य शशाङ्कस्य रेखा दुर्भिक्षहारिणी । अल्पीयसी तु दुर्भिक्षभयं वितनुते नृणाम् ॥ ६ ॥ उक्तसंस्थानविरहादुत्तरोनतशृङ्गवान् । शस्यदृष्टिकरो याम्यतुङ्गो दुर्भिक्षकृच्छशी ॥ ७ ॥
इति बिम्बनिर्णयः ।
प्रथमादिषुःसन्दृष्टा रेखा चान्द्रमसो नृणाम् ! आयुष्यमर्थमारोग्यं दुर्य्यशश्च प्रयच्छति ॥ १ ॥ सोभाग्यमर्थलोपञ्च भयं शोकं शिवं शुभम् । व्याधिञ्च धत्ते सूर्यादि वारदृष्टः शशीशिशुः ॥ २ ॥ तृतीयाच्चानुकूलोक्तदिने भार्गववासरे । दृष्टो नवशशी कुर्याद्वस्त्राप्तिासिकत्रिभिः ॥ ३ ॥ १ यमुत्तरोत्नतः ।
Aho! Shrutgyanam