SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ( २२ ) शोध्यात्तेऽन्तरकालार्ताः शेषा यात्रा निशि स्मृताः। सान्तराद् विकलाः पिण्डान्निशामानाद्विशोधयेत् ॥८॥ शेषं पूर्बाम्बरे शुक्ले व्यतीताः स्यु विनाडिकाः। स एव विकलापिण्डः संयुक्तोत्तरसंज्ञितैः ॥९॥ पूर्वाम्बरस्थे शशिनि कृष्णे याता विनाडिकाः । निशामानविलिप्तीषु सान्तरो विकलागणः ॥ १० ॥ शोध्यशेषांगणाः ज्ञेयाः बहुले पश्चिमाम्बरे । घटिकाः साधयेदेवं चन्द्रच्छायापदैर्बुधः ॥ ११ ॥ इदानी लिप्तिकाभिस्तु पदमुत्पादयेद्यथा । अन्तरञ्च निशानाथप्रमाणश्च परस्परम् ॥ १२ ॥ शोधयेद् भागहारः स्याच्छेपः शुक्ल पराम्बरे । अन्तरञ्च निशानाथयुक्तरात्रिप्रमाणकम् ॥ १३ ॥ जह्यात् परस्परं शुक्ले भाजकः प्राविहायसि । निशि व्यतीतकालस्य चान्तरस्य यदन्तरम् ॥ १४ ॥ तदिदम्भागहारः स्यात् प्राच्यां कृष्णे निशाकरे । सान्तरस्तु निशा याता निशामानविशोधिताः ॥१५॥ कृष्णे तु पश्चिमाकाशे भागहार इति स्मृतः । नरसेना निशार्धेन ताडयित्वा तथा पुनः॥ १६ ॥ इष्टेन भाजकेनातं फलं तीरे समुत्त्यजेत् । नताप्तमगुलं शेषं व्यङ्गुलं परिदीपयेत् ॥ १७ ॥ अवच्छायामिह क्षिप्ता दलयेत् पुनरेव तत् । चन्द्रच्छायापदं नाम शेषमत्र स्थितम्भवेत् ॥ १८ ॥ इति च्छायानिर्णयः। ----000-- १ यात्र। २ निशामान । ३ गता। ४ मन्द्रस्काया। Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy