SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ ( २६८) ग्रीवा चाप्यथ नासिका च नयनं कर्णश्च चिल्ली तथा । तन्मध्यास्त्वथ शङ्खमस्तकमिति प्रारभ्य शुक्लादिमम् पुंसां दक्षिणतश्चरेत्तिथिशादेहे सुधायाः कला ॥२०२॥ अस्यार्थः । पक्षयोः शुक्लकृष्णयोः कथिता निरूपिता चान्द्री कला चन्द्रसम्बन्धी अंशविशेषः ऊधिश्चलनक्रमेण शुक्ले ऊर्द्ध चलनेन कृष्णे अधश्चलनेनेत्यर्थः वामभ्रुवां रमणीनाम् अङ्गुष्ठे, धरणे, गुल्फनिलये गुल्फस्थाने, जानुद्वये, वस्तिके नाश्यधोभागे, नाभी, वक्षसि, जङ्घयोः, कण्ठे, कपोले गण्डे, अधरे, नेत्रे, कर्णयुगे, ललाटफलके, मौली शिरसि, च निगदिता उक्ता ॥ सीमन्ते नयनेऽधरे च गलके कक्षस्तते चूचुके नाभौ श्रोणितटे मनोभवगृहे जकात गण्डके । गुल्फे पादतले तदङ्गुलितटेऽङ्गुष्ठे च तिष्ठत्यसो घृद्धिक्षीणतया समं शशिकला पक्षद्वये योषताम् ॥ अस्यार्थः । पक्षद्वये शुक्लकृष्णयोः असौ शशिकला चन्द्रकला वृद्धिक्षीणतया शुक्ले वृद्धया कृष्ण क्षीणतया क्षयेण समं समभावेनेत्यर्थः योषितां नारीणां सीमन्ते केशे, नयने, अधरे, गलके कण्ठे, वक्षस्तटे, उरमि, चूचुके कुचाग्रे, नाभी, श्रोणितटे नितम्बे, मनोभवगृहे योनौ, जातटे, गण्डके कपोले, गुल्फे, पादतले, चरणतले तदङ्गुलितटे तस्य चरणस्य अङ्गुलिदेशे, अङ्गुष्ठे वृद्धाङ्गुलौ च तिष्टति ॥ शुक्लपक्षे वसेवामे पादाङ्गुलिकनिष्ठके। शुक्लप्रतिपदादी च कृष्णे चाधः प्रलम्बते ॥ पुंसः सव्ये स्त्रिया वामे शुक्ले कृष्णे विपर्ययः । प्रस्यार्थः। शुक्लपक्ष वामे घामभागे, योषितामिति शेषः । शुक्ल प्रतिपदादौ च पादाङ्गुलिकनिष्ठके वसेत् शशिकलेति शेषः। कृष्ण कृष्णपक्षे, अधः प्रलम्बते च ॥ शुक्ले शुक्लपक्षे, पुंसः पुरुषस्य, सव्ये दक्षिणे, स्त्रियाः वामे शशिकला वसेदितिं शेषः । कृष्णे विपर्यायः पुंसः वामे स्त्रियाः दक्षिणे शशिकला वसेदित्यर्थः ॥ Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy