________________
( २६७ ) क्षीरपिष्टं तिलम्पाठा कार्पासदलमेव च । सक्रेण सहितं पीतं नाशयेद्गोविशूचिकाम् ॥ १९७ ॥ सलिलं नारिकेलस्य खारीक्षीरं बलारसम् । चतुष्टयमिदम्पानात् करीषाभं हरेद्भवाम् ॥ १९८ ॥ वचालशुननिर्गुण्डी दीप्यकं सफनीतकम् । खा- कुष्माण्डा पुर्य्याके करीषे पाययेत् पशुम् ॥ १९९॥
. सहस्ररश्मिरादियोऽग्निठठ । पत्रे लिखितमेतद्गाः पालयेत् कलितं गले। वातीं हुं पुं क्लीं हंई क्लीं ह हुं क्लीं कलंठठ ॥ २०० ॥ षड्गुणषदिवसं विसहस्रं नियमक्षवलयेन च जप्या । साधितमन्त्ररयन्नतिजप्य स्पर्शनेन जनतामयहृत् स्यात् २०१ *अङ्गुष्ठोऽमिकगुल्फजानुमदनावासाश्च नाभिश्च हृद्
* अस्याः बहुविशेषा मतान्तरेषु दृश्यन्ते । तस्मादिह केषाश्चि. न्मतानि हि सन्दर्शयामि । तेषु प्रायो अयदेवाचार्यमतमायुर्वेदा. गतक्रमचेत्युभयमेतत्पूर्व प्रमाणीकृतम् । अन्ये तु कलाशब्दमा प्रत्यङ्गेवामनन्ति । तद्यथा। शिरो ग्रीवा पाणि पाद पार्श्वपृष्ठोदरास्येत्यष्टाङ्गानि । चिबुकनासौष्ठधवणाङ्गुष्ठाङ्गुलिपाणिगुल्फाः प्रत्यङ्गानीति । स्वतन्त्र परतन्त्राभिप्रायानुवर्तिभिः आचार्यैः कलाशब्दो गुणवाची पठितः। तस्य पुरुषस्य सुखदुःखेच्छादयो भूतचिन्ता. शरीरोक्ताः षोड़शगुणाः चतुष्पादं षोडशकलं भेषजं चरकाचार्येणोक्तम् । तत्र षोडशकलं षोडशगुणमिति व्याख्यानयन्ति । अग्निः सोमो वायुः सत्त्वं रजस्तमः पश्चन्द्रियाणि भूतात्मति प्राणाः । यो ऽसौ भूतात्मा स तु षोडशकलः संयोगिन एव प्राणव्यपदेशभा... जइत्येकादशत्वम् । रोगाणान्तु सहनं यच्छतं विंशतिरेव चेति ॥ जयदेवाचार्य्यमतम् ।
अङ्गुष्ठे चरणे च गुल्फनिलये जानुद्वये बस्तिके नाभी वक्षसि जयोर्निगदिता कण्ठे कपोलेऽधरे। नेत्रे कर्णयुगे ललाटफलके मौली च वामभुवां मृधिश्चलनक्रमेण कथिता चान्द्री कला पक्षयोः।
Aho ! Shrutgyanam