________________
( २६६ )
रम्भाफलं मूलशतं निःस्वासं दन्ति भक्षितम् । कृष्णोषणानिशाराष्णाद्राक्षातैलं गुडं लिहेत् ॥ धात्री लाजा सिताक्षौद्रतैलाज्यं स्वाशक्राशहृत् ॥ १८६ | धात्री विश्वसिता कृष्णा मुस्ताखर्जूरमागधी । पिञ्जभस्मा च हिक्कान्नस्तत्रायं मधुना लिहेत् ॥ ९८७ ॥ रेखाभ्यामग्रशूलाभ्यामाक्रम्येन्दुं लिखेद्विषम् । कोष्टेषु तारं मध्ये च चक्रं हस्ततलेऽपितम् । दुष्टं हन्ति शिरोरोगं चिन्यमानं यथामृतम् ॥ १८८ ॥ निर्व्वा रजस्य चक्रस्य सान्तं कोष्ठेषु विन्दुमत् । तथैकरुद्रं वा तस्य लिखेत् कोष्ठेषु दण्डिनम् । न्यसेन्मूध्युपधाने च शिरोरोगस्य शान्तये ॥ १८९ ॥ स्वेदयेत् पायसेनापि कुष्माण्डैरण्डयोः शिफे । खाय लिम्पेच्छिरोरोगे पारिभद्रत्वचं तथा ॥ १९० ॥ आकीं सौम्यशिफापेया मारिहृत् तण्डुलाम्भसा । पाठोपानच्च पानेन हरेव सद्यो मसूरिकाम् || १९१ ॥ तुरगार्कशिफा तुटी निशा द्वयहंसाङ्घिहिराशृतं घृतम् । उपसेवनतो विनाशयेदुपदेशास्तनावद्रुधिक्षताम् ॥ १९२ ॥ सिंही यष्टी निशागुग्मवत्सक काथ सेवितम् । शिशोस्सर्व्वातिसारे च स्तन्यदोषे च शस्यते ।। १९३ ।। सकृष्णातिविषा शृङ्गी चूर्णितं मधुना लिहेत् । एकावती विषा काशश्छर्दि ज्वरहिता शिशोः ।। १९४ ॥ देवदारुहाशी ग्रुफलत्रयपयोमुचाम् ।
काथः सकृष्णमृद्रीकः कल्कः सर्व्वान् कृमीन हरेव ॥ १९५ ॥ हरिद्राराजवृक्षत्वग्चिश्ञ्चालवणलोलिता ।
पीताखारि हरेद्राश्च गवामुदररंसंहनम् ॥ १९६ ॥
१ हृहनम् ।
Aho! Shrutgyanam