________________
( २६३ ) रक्तपित्ती पिबेदासा स्वरसं ससिता मधु । वरी द्राक्षा बला शुण्ठो साधितं वा पयःपृथक् ॥ १५६ ॥ भाग्ये च पितृ नक्षत्रे क्षयरोगचिकित्सितम् । वरीविदारीपथ्याश्च बलात्रयनवायुतम् ॥ स्वदंष्ट्रां मधुसर्पिभ्यामालिहेतु क्षयरोगवान् ॥ १५७ ॥ रौद्रे मुहुर्ते विहिता विद्रध्यादिप्रतिक्रियाम् । पथ्या शीग्रुकरजार्कत्वगेला विश्वसिन्धुयुक् । समूत्राविद्रधिग्रन्थिपिलकोपचिकादिहृत् ॥ १५८ ॥ विवतेजस्वती वन्ती मञ्जिष्ठा रजनी द्वयम् । तार्यगं निम्बपत्रञ्च पिष्ट्वा लिम्पेद्भगन्दरे ॥ १५९ ॥ व्याघातरजनी लाक्षा चूर्णज्यक्षौद्रसंयुता। वासातव्रणे योज्या शोधिनी गतिनाशिनी ॥ १६० ॥ शामा यष्ठि निशा लोध्रपनकोत्पलचन्दनैः। सशारिबे श्रुतं तैलं क्षीरे स्याणरोपणम् ।। १६१ ॥ श्रीकाप्पासदलैर्भस्मफलोषणवरी निशा । तत्पिण्डी स्वेदेनं ताने सतैलं स्यात् क्षतौषधम् ॥ १६२॥ कुम्भी शामपयोयुक्तं वह्निदग्धव्रणे दिशेत् । तदेव नाशयेत् शोकान्नारिकेलरजो धृतम् । दृर्बापत्रमपामार्गपत्रं स्यादश्रवन्धनम् ॥ १६३ ॥ अतीसारचिकित्सा स्यान्मुहुर्ते रौद्रसंज्ञिते । नाभौ लिम्पेत्तण्डुलाभिस्तालीमूलं विसूचिहृत् । नश्येद् भृङ्गाम्बुमुष्णाभिः कृष्णविश्वे पिबेदपि ॥१६४॥ विश्वाजमोदसिन्धूत्थीचश्चात्वग्भिः समाभया । तक्रेणोष्णाम्वुना वापि पीतातीसारनाशिनी ॥ १६५ ।। वत्सकातिविषोदीच्यबिल्वमुस्तुश्रुतं जलम् ।
Aho! Shrutgyanam