________________
( २६४ ) सामे पुराणेतीसारे साश्टकशुले च पाययेत् ॥ १६६ ॥ अङ्गारदग्धं स्नुहहतं सिन्धुमुष्णाम्बुना पिवेत् । शूलवानथवा तद्वत् सिन्धुहिगुकणाभया ॥ १६७ ॥ वरारोहोत्पलातङ्कराजचूर्णं मधुप्लुतम् । वस्त्रच्छन्नगतं वत्क्रं न्यस्तं तृष्णा विनाशयेत् ॥ १६८ ॥ यासदावर्तीजातिफलद्राक्षामृतफलत्रयैः । साधितं समधुयुक्तं कबलं मुखपाकहृत् ॥ १६९ ॥ कृष्णातिविषतिक्तेन्द्रदारुपाठापयोमुचाम् । काथो मृवेशतः क्षौगी सर्बकण्ठगदापहः ॥ १७० ॥ पथ्या गोक्षुर दुस्पर्श राजवृक्षशिलाभिडाम् । कषायः समधुः पीतो मूत्रकृच्छामपोहति । सस्नुहत्वग्वरणाकाथः शर्करास्परिपातनः ॥ १७१ ॥ शाके मुहूर्ते भाग्य: दृद्धिरोगचिकित्सितम् । ऐन्द्रिमूलं कुबेराक्षि शृङ्गं वा वृद्धिमान् पिवेत् । तद्वयं सिन्धुयुक्तं वा तक्रेणोष्णाम्बुनाथवा ॥ १७२ ॥ गुल्मरोगचिकित्सा स्यादुत्तरत्रयवारिभे। सौवर्चलाजाहिङ्गुनां सदीप्यानां रजोयुतम् । विल्वं दीपकयुक्तं वा वातगुल्मातुर पिवेत् ॥ १७३ ॥ सार्पे सर्पमुहूर्ते च विसर्पानां चिकित्सितम् । धात्री पटोलमुस्तानां काथः सर्वविसर्पनुत् ॥ १७४॥ शोफप्रतिक्रिया स्वातिरेवतीरोहिणीषु च । शुण्ठी दारु नवा क्षीर काथो मूवान्वितः परम् । सव्योपयो रजक्षारफलकाथश्च शोफनुत् ॥ १७५ ॥ बहुलामु शनेर्वारे जठराग्निचिकित्सितम् । सिन्धुद्विज्जीरको व्योषदीप्यहिङ्गुरजोष्णुयात् ।
Aho! Shrutgyanam