________________
( २६२ )
यमवारे च याम्यर्थे यमलग्ने विशेषतः । गण्डमालादिरोगेषु कण्ठजेषु चिकित्सितम् ॥ १४६ ॥ सात लाङ्गलीकल्के तैलं निर्गुण्डिकारसे । गण्डमालाश्च गलगण्डौ नाशयेन्नस्यकर्मणा ॥ १४७ ॥ हस्तक्ष भानुवारा कुर्य्यात् कुष्टचिकित्सितम् । पल्लवैरर्क पूतीक स्नुहीव्याघातजातिजैः : ॥ उद्वर्त्तयेत् सगोमूत्रैः सर्व्वत्वग्दोषशान्तये ॥ १४८ ॥ वाकुची सतिला भुक्ता वत्सरं कुष्ठनाशिनी । भल्लातकं तिलञ्चैव गुडपिण्डीच कुष्ठजित् ॥ १४९ ॥ मूले वा पुष्यनक्षत्रे गुदरोगचिकित्सितम् । पूतीकवह्निरजनी त्रिफला तिलचूर्णयुक् ।
तकं गुदाङ्कुरे पेयं भक्ष्या वा सगुडाभया ॥ १५० ॥ रौद्रे सार्पेच शक्रेच कुर्य्यान्मेहचिकित्सितम् । फलदाबी विशालाभ्रकाथो दार्व्विरसोऽथवा । पातव्यो रजनीकल्कक्षौद्रयुक्तः प्रमेहिनाम् ॥ १५१ ॥ स्वातो वा मित्रनक्षत्रे चिकित्सा श्रोणिते हिता । वासा गुडीची व्याघातकाथस्त्वेरण्डतैलयुक् । बातश्रोणितहृत पीतः पिप्फली स्यात् प्लिहाहरी ॥ १५२ ॥ दस्रभे शनिवारे च चिकित्सा जठरामये । सेव्या जठरिणा कृष्णस्नुक्षरिबहुभाविता । पयो वा चव्यदन्यज्ञविषगौ व्योषकल्कयुक् ॥ १५३ ॥ ग्रन्थिकान्यभया कृष्णा बिलङ्गाक्ते घटे स्थितम् । मसन्तकं ग्रहण्यर्शः पाण्डुगुल्मक्रिमीन हरेत् ॥ १५४ ॥ फलत्रयामृतावासा तिक्तभूनिम्बनिम्वजः । काथः समाक्षिको हन्यात् पाण्डुरोगं सकामिलम् ॥ १५५ ॥
Aho! Shrutgyanam