________________
( २५९ )
नागवल्लीदलरसं रामठेन समन्वितम् ।
कैसे करेण सम्पिष्टं लिम्पेद् वृचिकनाशनम् ११६ ॥ कराभ्यां नक्तमालस्य दलं पिष्ट्वा विचक्षणः । विद्धमदेशे बनीयात् सद्यो वृश्चिकमस्यति ॥ ११७ ॥ वचा दिनकरक्षीरे लिप्ता वृश्विकनाशिनी । लाजया सह संयुक्ता श्रवणान्तर्गतं मलम् । वेधे सङ्घर्षणेनैव विषं वृश्चिकजं जयेत् ॥ ११८ ॥ पलासबीजमर्कस्य क्षीरेण सह पेषितम् । लिम्पेद् वृश्चिकवेधे तु वहुभिः किं वितर्कनैः ॥ ११९॥ इति वृश्चिकविषचिकित्सा ॥
:0:
कपित्थोत्थितवन्दार्क क्षीरेण सह पेषयेव । अष्टादशविधं घोरं मौषिकं नाशयेद्विषम् ॥ १२० ॥ असाध्याखुविषे दष्टे सरटेन सिनाखुना । प्रातर्माहिषतक्रेण शालिपानञ्च पूजितम् ॥ १२१ ॥ समूलं हंसनादिन्तु गुञ्जां वा क्षीरपेषिताम् । पाययेल्लेपयेचैव मूषिकस्य विषं जयेत् ॥ १२२ ॥ इति मूषिक चिकित्सा ॥
:0:
रसेन लेपनं कुर्य्याच् छिरीषमुनिपत्रयोः ।
लूत नस्यापि वा तोयैलूंना सद्यो विनश्यति ॥ १२३ ॥ पुष्पं दलं फलं कल्कं मूलञ्चैव शिरीषजम् । योगो ऽयं लूतकोटादि विषध्वान्तस्य भास्करः ॥ १२४ ॥ इति लूताविषचिकित्सा ॥
:0:
Aho! Shrutgyanam