________________
( २५८ ) विषशोफौ कदुप्णौ तौ नान्सपोन्तलको ऽपि वा ॥ १०६ ॥
इति मण्डलिचिकित्सा ॥
-:
:
अटवीं कारवल्लीञ्च कन्दक्षीरेण पाययेत् । शारिबायास्तथा मूत्रैर्नस्यं वा हन्ति राजिलम् ॥ १०७ ॥ वचा चिर्भिट वर्षाभू मूलानि सह कजिकैः । पिवेद्राजिलजं सर्व विषं नश्यति निश्चितम् ॥ १०८ ॥ सैलेन गृहधूमस्य नस्यं राजिलदंशिनाम् । तदहर्वत्सविरं मूत्र नस्यं तत्र फणोन्यपि ॥ १०९॥ मागधक्षौद्रसिन्धूत्थान् गोशकृद्वारिणा सह । पाययेद्राजिलैर्दष्टं क्षणं निविषतां व्रजेत् ॥ ११० ॥ परिशुष्कन्तु सम्पिष्टय नरगूथं तदम्भसा । पाययेदुद्गतौ व्यालविषसहरणाय तु ॥ १११ ॥
. इति राजिलचिकित्सा ॥
साहिविषनाशाय टङ्कनस्य रजोऽम्भसा । नस्य लेपन पानाद्यैरुपदेशोऽयमुत्तमः ॥ ११२ ॥ पुनर्नवरसेनैव रामठं कीतितं बुधः। नस्यं कुवात सर्वेष्वप्येकं वैकुण्ठिकारसम् ॥ ११३ ॥ चम्पकस्य रसैनस्यं सर्वसर्पविषापहम् । बहुमूलस्य सौवीरैर्नस्यपानाजनादयः ॥ ११४ ॥ अर्कपत्रेण लवणं नृमूत्रेण च पेषयेत् । लिम्पेत् सर्चविषं जयमिति प्रोक्तं पुरातनैः ॥ ११५ ॥
इति सर्चविषचिकित्सा ॥
Aho! Shrutgyanam