________________
( २५७ ) मरिचं वा कुलं बीजं गुजाच नरवारिणा । नस्यपाने प्रकुवात सक्तसंज्ञेऽपि दष्टके ॥ ९६ ॥ मातृसंघातहस्तेन रामठं पास्रवान्वितम् । नस्याजादिना रक्षेद्दष्टमप्यष्टभोगिभिः ॥९७ ॥ मूत्रेण वा कुलं बीजं नस्यपानादिना जयेत् । विषमेतत् फणीन्द्राणां दृष्टिदावानलं तथा ॥ ९८॥ विंशतिकृत्वाशरूदपि दिनकरदुग्धेन भावितं ( तच्च ) ॥ विश्वं खादेदाश्म स्वस्थावेशश्च कारयति ॥ ९९ ॥ स्वेतार्कमूलं गिरिकर्णिकञ्च भृङ्गप्रवालं लवणञ्च कुष्ठम् । नस्याञ्जनाभ्यअपानयोगादुत्तिष्ठते वा मुखिनापि दष्टः१०० तरुणतरकतकफलरसबहुभावितमेलखण्डपरिमृदितम् । सलिलं सतैलमखिलं हरति विषं नासिकानिहितम् ॥१०॥
इति दर्वीकरचिकित्सा ।
कुमारी कारवल्लीश्च कतकारी शीग्रुणा सह । भृङ्गराजं नृमूत्रेण लिम्पेन्मण्डलिग्लानये ॥ १०२॥ गोक्षीरेण तु सम्पिष्टबज्रवल्ली मरुन्धृतः ।। तेनैव पाययेत् सर्वं विषं मण्डलिनां जयेत् ॥ १०३ ॥ स्नुङ्मूलमाजदुग्धेन जलेनार्कशिफाथवा । पानादपहरेत्सद्यः सबैमण्डलिनां विषम् ॥ १०४ ॥ कृष्णवल्लीदलं वाथ तुम्विकां वा सपम्फनम् । धाभ्याम्लरसलेपेन रक्तमण्मलिनां हरेत् ॥ १०५ ॥ अन्यत्तदलकल्को वा माहिषच्छकनो ऽथवा । १ तक्तकारी॥
Aho ! Shrutgyanam