________________
( २४२ ) यात्रायां विघ्नदाशब्दा विषादप्रतिपादकाः ॥ ३० ॥ विना बलात्कृतं दृद्धवाल*पीतासिनां क्षुतम् । क्षुतं सर्वत्र नेष्टं स्याद् गोहुतं मरणप्रदम् ॥ ३१ ॥ यात्रायां दक्षिणे रुत्वा पश्चाद्वामे विरौति चेत् । श्रेष्टा वाभिमुखे दृष्टा नेष्टा गोली च दक्षिणे॥३२॥ प्रस्थाने मङ्गलं वाक्यं गर्जनं मेघहस्तिनम् । दक्षिणे सफलो वृक्षो वायसस्य च कूजितम् । गीतवादितशब्दाश्च सिद्धये श्रुतिरीदृशी ॥ ३३ ॥ आष्कन्दो वजुलादीनां दक्षिणे विरुतं क्षुतम् । अनर्थसूचकं वाक्यमीदृशं स्यादसिद्धये ॥ ३४ ॥ वैश्यो विमो नृपः कन्या गौर्दन्ती मुरजध्वजौ । क्षीराज्यदधिशङ्खाम्बुच्छत्रं भेरि फलं सुरा ॥ ३५ ॥ तण्डुलं हेम रूप्यञ्च सिद्धयेऽभिमुखा अमी। सकाष्टः सानलाकारुमलिनाम्वरभारहृत् ॥ ३६ ॥ गलस्पटङ्गोगोमायुः गृद्धोलूककैपिञ्जलाः। महिषाभिषवो मांसे निषेधः पतनं वधः ॥ ३७॥ कलशःसर्वजातीनां सम्माजनविलेपने । तैलं कपालं कार्पासं भस्मन्येतान्यसिद्धये ॥ ३८ ॥ भुजङ्गदर्शनं यातुः शत्रुभ्यो भयमावहेत् । लवनञ्च गुडं काष्टमभ्यक्तञ्च कषायितम् । ननं विमुक्तकेशश्च दृष्ट्वा गेहं पुनव्रजेत् ॥ ३९ ॥ भारद्वाजस्य शिखिनो मृगस्य नकुलस्य च । दर्शनं सर्वतःश्रेष्टमतिश्रेष्टम्प्रदक्षिणम् ॥ ४० ॥ यदुक्तश्चरितादेशे वायसानां शुनामपि । * पीनसिना । १ कपिश्चिकाः ।
Aho! Shrutgyanam