________________
। २४१ ) अनुराधा विशामिष्टा शूद्राणां रेवती हिता ॥१८॥ तत्तद्यात्रामु शुभदा नरस्त्रीषण्डतारकाः। रोहिण्यां वृषभे लग्ने गोगात्राक्षेमसाधनम् ॥ १९॥ अश्विन्यां चापपश्चार्द्ध हयानां गमनं हितस् । सोमभे मिथने लग्ने दन्तियात्रा प्रशस्यते ॥२०॥ तिरश्चां गमनम्पथ्यं पुष्यभे मिथुनोदये । पक्षिणां शुभदा यात्रा कन्यायां हस्ततारके ॥ २१ ॥ जलयात्रा प्रशस्ता स्याहारुणे चोत्तरत्रये । कन्याकुलीरमीनेषु वारयोर्जीवशुक्रयोः ॥ २२ ।। स्वयं यातुमशक्यश्वेच्छत्रशय्यादिनिर्गमम् । पूर्वव रात्रौ सम्पूज्य प्राप्ते काले तु कारयेत् ॥ २३ ॥ छत्रदण्डाक्षमालाग्निकमण्डल्वजिनाम्बरस् । विप्राणां ब्रह्मसूत्रञ्च निर्गमे कार्यसाधनम् ॥ २४ ॥ जीविकासाधनं सर्व पुस्तकाभरणादिकम् । सर्वेषां निर्गमे शस्तमभिप्रेतार्थसिद्धये ॥ २५ ॥ श्रद्धायुतः शुचित्रातः प्रसन्नेन्द्रियमानसः । मुक्त्वापूज्य तथापूच्छय निर्गच्छेद् गुरुतोषितः ॥२६॥ क्षौरं क्रोधं भयं लोभं मद्यं मांसञ्च रोदनम् । मैथुनं तैलमभ्यङ्गं यात्रायां प्राविविवर्जयेत् ॥ २७ ॥ याकृत्वा मैथुनं रात्रौ प्रभाते प्रस्थितो भवेत् । नासौ फलमवाप्नोति कृच्छ्रेण च निवर्तते ॥ २८ ॥ गच्छ जीव जय प्रैहि याहि मुञ्च विवर्जय । प्रापयोत्तिष्ट निर्गच्छ शब्दद्या गमने शुभाः ॥२९॥ तिष्ट मागा निवर्तस्व मूढ मूर्ख जलेति च ।
१ नरस्त्रीषष्टण्डतारका । २ मांशनारोदरम् ॥
Aho! Shrutgyanam