________________
( २४० ) नन्दा भद्रा जया पूर्णा पूर्वादिगमने शुभाः। चरेषु गरजं विष्टि विहायान्यानि शर्मणे । स्थिराणि करणान्युच्चैर्नेष्टानि विबुधैःसदा ॥ ८ ॥ कुजवारश्च मध्याह्नः पूर्वस्यां दिशि शोभनः । याम्ये यामास्तकालश्च बारौ शनिशशाङ्कयोः ॥ ९ ॥ वारुण्यां प्रध्यरात्राश्च वारौ च गुरुसौम्ययोः। उदयश्चोत्तराशायां वारौ शुक्रायोहितौ ॥ १० ॥ तत्तदाशां व्रजेत्तत्तद्राशिलग्नेषु बुद्धिमान् । योगिनी पुरतः कृत्वा याति यास विनश्यति ॥ ११ ॥ द्वितीया च तृतीया च पञ्चमी सप्तमी शुभाः। दशम्येकादशी या तु पौर्णमासी त्रयोदशी ॥ १२ ॥ आदश्रम्पतिपत्तिथेस्तिथिवशात्पूर्वादिकाष्टाष्टकं क्रान्त्वा दैयगुरुःक्रमेण च दिवं भूमि प्रयातो यदा । सानर्थपसौकरोससुमतां कार्योधतानां तदा पृष्टे दक्षिणतः प्रशस्तफलदो वाने मुखेऽनर्थकृत् ॥ १३ ॥ गोनृयुक्तार्ककन्याश्च तुलाचायौ तु सर्वतः । यात्रायां केचिदिच्छन्ति कुम्भःसर्वत्र निन्दितः ॥ १४ ॥ मूोदयं प्रशंसन्ति सळयात्रामु पण्डिताः । पापास्त्र्ययारिगाः शस्ताः सौम्याः सर्वे तथैव च ॥१५॥ नेष्टो लग्नेऽष्टमान्यस्थः पूर्णोऽपि शशलाञ्छनः । गुरुः पृष्ठाष्टमान्यस्थो नेष्टः शुक्रोऽपि सप्तमे । पञ्चमं द्वादशश्चैव शुद्धीमच्छन्ति कोविदाः ॥ १६ ॥ लग्नार्थबन्धुधोदारधर्मकम्मायगाः शुभाः। दशमस्थः शनिश्चेष्टः सर्वयात्रामु धीधनैः ॥ १७ ॥ याने श्रविष्टा विमाणां श्रवणं धरणीभुजाम् ।
Aho ! Shrutgyanam