________________
२३८ ) स्वातिर्वा रोहिणी वाथ लग्नं जीवस्य वा रवः। योगोऽयमुत्तमय व्ययाय च सुशोभनः ॥ ७० ॥
इति सङ्ग्रहविधिः।
गृहीत्वा मेषगे भानौ ग्रीष्मधान्यान्यथोक्षगे। मूलादीनां च विक्रेता तुरिये मासि लाभभाक् ॥ ७१ ॥ मिथुनस्थे रसद्रव्यं गृहीत्वा मासपञ्चके । व्यतीते बहु विक्रेता त्रिगुणं लाभमाप्नुयात् ॥ ७२ ।। फलम्पत्रञ्च वासश्च क्रीत्वा कर्कटके रवौं । मासपटकेन विक्रेता लभते लाभमुत्तमम् । मौक्तिकं रजतं लोहं गाङ्गेयं वापि सिंहगे । उपादायाष्टभिर्मा सैविक्रेता लाभमाप्नुयात् । कन्यासमागते सर्वमौषधं द्रव्यमाहरेत् । लाभाय सप्तमे मासि प्रयुजीत व्यये बुधः ॥ ७३ ॥ तुलाधिरूढे रत्नानि वस्तुजातञ्च तन्नवम् ।। गृहीत्वा मासषट्केन व्ययमानोऽश्नीयात्फलम् ॥ ७४ ॥ वृश्चिकोपगते क्रीत्वा भाण्डं मृद्धर्मनिम्मितम् । नवमे मासि विक्रीय चतुर्गुणमवाप्नुयात् ॥ ७९ ॥ क्रीत्वा वापोपगे शङ्खप्रवालभिदुरादिकम् । विक्रीय लाभमाप्नोति त्रिगुणं वा चतुर्गुणम् ॥ ७६॥ मकरे रत्नजातानि वर्माणि च विचक्षणः । क्रीत्वा मासाष्टकेनैव विक्रेता लाभमाप्नुयात् ॥ ७७ ।। अयोदारुमयं कुम्भे क्रीत्वा तृणमयं तथा। मासासयेन विक्रेता फलं भूयोऽधिगच्छति ॥ ७८ ॥
Aho ! Shrutgyanam