________________
( २३७ । स्फुटयदग्निचक्रेण वारि मार्गेषु तत् खनेत् । एतेन सस्यकीटास्तु व्यपयान्ति तलो बहिः ॥ ६ ॥ आर्द्र चटकतैलेन निम्मों के जुहुयात्ततः। उर्ध्वमारुतधूपेन यान्ति सस्य* द्रुहस्ततः ॥ ६२ ॥ श्वभ्रेऽग्निदग्धे सम्पूर्य सामंकोलचूर्णकैः। शुष्कगामयचूर्णानि तत्र भञ्जनपेशिनाम् ॥ ६३ ॥ सूत्रेण गाढमावेष्ट्य निहितः रोहितोदरे । पुष्येण रोपयेद् दृक्ष सन्ततं स्वादुशाकदम् ॥ ६४ ॥ इदमेव विधानं हि सहयादौ विधीयताम् । ततो भवन्ति स्वादृनि मधुराणि फलानि च ॥ ६५ ॥
इति वापविधिः।
शतक्षीवश्वार्य्यमसर्परुद्रस्वासर्कपोष्णेषु दिने सुभानाम् । लग्ने कुलोरेऽलिनि वा सुरेज्ये
चतुर्थगे लावनकर्म कुर्यात् ॥ ६६ ॥ द्वितीयं क्षेत्रपालेभ्यो दधि कं बलिमादितः । पद्मपत्रगतं पञ्चगव्यञ्च निखनेत्वले ॥ ६७ ॥ विष्णुराधाग्नियम्यानामंशकेषु यथाक्रमम् । कर्कटे वाथ कीटे वा विद्ध्याद्धान्यसङ्ग्रहम् ॥ ६८ ॥ अच्छिद्रास्तिथयः शस्ताः सौम्यवारोदयादयः। त्रिपडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः ॥ ६९ ॥ वारः शनेर्वा भानोर्वा प्रतिपदा चतुर्दशी।
१ भञ्जकशिताम् ।
* मृगस्तथा ॥
Aho ! Shrutgyanam