SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ ( २३६ ) मूलं मलयवल्ल्यस्तु कृष्णधान्ये च वारुणम् | रेवती सर्व्वशालीनां रोपणे मनिभिर्मताः ॥ ५२ ॥ राधानुराधा मूलञ्च हस्तश्चित्रेति पञ्चकम् | चन्द्रशुकसमायोगे ताम्बूली रोपणे हितम् ॥ ५३ ॥ ब्रह्माद्यास्तारकावाष्टौ हस्तं पुष्याश्विनी तथा । चन्द्रशुक्र समायोगे इक्षुरोपे शुभावहम् ॥ ५४ ॥ उत्तरत्रयमादिसपितृचित्रार्कयोनयः । ब्रह्मविष्णुमृगा मूलं हितमुत्पलरोपणे ॥ ५५ ॥ उत्तरत्रयविश्वान्यसर्पमूलानि धीधनैः । अङ्करीभूतसस्यानां प्रशस्तानि हि रोपणे ॥५६॥ मन्दवारे च विश्व लग्ने समतस्य च । सस्यरक्षाविधानार्थमुटजं कारयेद् बुधः ॥ ५७ ॥ सिंहोदय शनेवरे याम्ये नक्षत्रसङ्गते । प्रतिमां स्थापयेत् क्षेत्रे पशूनां शस्यविद्विषाम् ॥ ५८ ॥ स्वस्ति किष्कन्धाधिपत्रकटपराक्रमाविष्कारदिडमण्डलोपजीवितः श्रीहनुमानाज्ञापयति भूषिकपतङ्गपिपीलिकशरभसारम्भङ्गमृगप्रेतीकीटाद्यैर्नस्थातव्यमाज्ञामतिक्रम्यमानस्य शरीरं निग्रहं समावर्त्तयते तस्य वानरसिंहस्याक्रममानस्य सागरं कक्षारं तरङ्गतो वायुर्जीमूत इव गर्जति हुं फट्नमः ॥ मन्त्रं पत्रे समालिख्य जयत्वा तन्निखने तदा । भुवि की लवङ्गाखुपिपोल्यादिर्विनश्यति ॥ ५९ ॥ समभ्यज्य महातैलैः सर्पत्वन्मयवर्त्तिकाम् । नयेत प्रदीपं वामेन सस्यकीटास्यजन्ति तत् ॥ ६० ॥ विलिख्य तुम्बुरो बीजमिष्टिकायां विचक्षणः । १ यथायोगे । २ समायोनादिक्षुरोपे । Aho! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy