________________
( २३५ ) परिघो नाम दण्डोऽस्ति वायुवह्निसमश्च यः । न गच्छेत्तमातिक्रम्य बीजकर्मणि बुद्धिमान् । तस्मात्तत्तन्मुखारम्भं कृष्याद्यारम्भमाचरेत् ॥ ४१ ।। वामकर्णविभिनौ हौ थान्तौ नक्रयुतायुतौ । श्येनश्वानौ च न शान्तौ बीजानां वपर्ने विदुः ॥ ४२ ॥ शकुनाः मुस्वरा वामे बीजानिर्गमने शुभाः। ब्राह्म मुहूर्ते सर्वेषां सस्यानां वापनं हितम् । मुहूर्ते वाभिजित्ख्याते वृक्षरोपणमुत्तमम् ॥ ४३ ।। शुक्लपक्षे तु पञ्चम्यां चन्द्रे पुष्यमुपागते । मुहर्ते वाभिजित्ख्यासे वपनं रोपणं हितम् ॥ ४४ ॥ मूलप्रधानं दिवसे खरांशोः स्कन्धप्रधानं शशिनश्च वारे । पत्रप्रधानं कुजकोणयोश्च पुष्पप्रधानं बुधवासरे च ॥ ४५ ॥
फलप्रधानं सितजीवयोश्च सारमधानं गुरुवासरे च । त्वक्पेशलं मन्ददिने विदध्याद् वृन्तप्रधानं* शशिवासरे च ॥४६॥
अर्कोदये सूर्यवारे सस्यबीजानि वापयेत् । मन्दस्य वारे मध्याह्ने कृष्णधान्यानि वापयेत् ॥ ४७ ॥ भौमस्य वारे तल्लगने कोद्रवान् वापयेद् बुधः । शुक्रस्य वारे तल्लग्ने वापयेत् कौसुमांस्तरुन् ॥ ४८ ॥ अश्विनी क्रमुकेक्षणामिक्षूणामदितिस्तथा । रोहिणी वृक्षजातीनां सहसाः भरणी तथा ॥ ४९ ॥ हस्तोरगे नागवल्ल्याः पुष्यं पुष्पपहीरुहाम् । मघा च तृणपूर्वाणामुत्पले चोत्तरत्रयम् ॥ ५० ॥ मुद्गानां त्वाष्टभं श्रेष्टं सस्यवीजप्रभज्जनः ।
राधा साङ्कुरसस्यानामनुराधा च शालिषु ॥ ५१ ॥ १ विहन्तौ । २ थान्तौनयुतायुतौ। ३ शेनास्वान्नस्यातौ । ४ मधु । * बुधवासरे।
Aho! Shrutgyanam