________________
( २३४ ) एवं वर्द्धनशीलानि बीजानि सुपरीक्षय च । उक्तिमारभते विद्वान् शास्त्रोक्तविधिनामुना ॥ ३० ॥ मासस्त्वाषाढसंज्ञश्च ज्येष्टं मूलञ्च सम्मतः । कालो भौमार्त्तवस्येति वापस्तत्र प्रशस्यते ॥ ३१ ॥ वापः प्रशस्तताराद्यैः कलिकारसमर्दितम् । बीजमङ्करयेदेहे माक्सप्ताष्टनबाहतः ॥ ३२ ॥ मूलं मैत्रं मघा हस्तः पौष्णसर्पोत्तरत्रयम् । प्रजापसञ्च पुष्यञ्च स्वातिश्रवणबारुणे ॥ ३३ ॥ वीजकर्माणि शस्तानि नक्षत्राणि चतुर्दश । आद्रादियाश्विवस्विन्दुतारका मध्यमा स्मृताः ॥ ३४ ॥ पञ्चमी सप्तमी चैव पौर्णमासी त्रयोदशी। तृतीयैकादशी चैव प्रशस्ता बीजकर्माणि ॥ ३५ ॥ द्वितीया दशमी षष्टी मध्यमेति प्रकीर्तिता । विष्टिवानि शस्तानि चराणि करणाणि षट् ॥ ३६॥ *गोसिंहककिमीनाश्च मकरश्चैव पूजिताः। नयमकुम्भतुला मध्याः शेषाः सर्वे विगर्हिताः ॥ ३७॥ शुक्रेन्दुजीवसौम्यानां प्रशस्ता दिवसादयः । षष्टायभातृगाःपापाः श्रेष्टा शेषेषु वर्जिताः। शशिबन्ध्वर्थपुत्रस्त्रीभातृकायगा शुभाः ॥ ३८ ॥ अष्टमस्था ग्रहा नेष्टाः शुक्रो नेष्टश्च सप्तमे । विनिन्दिताःशुभाःषष्टे कालकणीकलस्तथा ॥ ३९ ॥ वपनं यत्र तारायां बीजं नेयं हि सादृशम् । माङ्मुखाः कृत्तिकाद्यास्तु मधाद्या दक्षिणामुखाः। पश्चान्मुखाश्च चैत्राद्या वस्वाद्यास्तूत्तरामुखाः ॥ ४० ॥ * गोनृयुक्कार्क। हरि। १ तईिशाः ।
Aho ! Shrutgyanam