SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ( २३१ ) अष्टाविंशोऽध्यायः। -::---- वक्ष्याम्यतः परमहं लघुना क्रमेण स्पष्टान्वयैरुपचयार्हदशाविधानम् । भूमिप्रवेशकृषिकर्मविशिष्टवस्तु बीजाप्तिसङ्ग्रहबणिग्मरणानि तत्र ॥१॥ प्रविश्य विधिवत्पूर्व विदधीत कृषि ततः । उत्तरत्रयमाद्री च चित्रा याम्यञ्च मित्रभम् ॥ २ ॥ स्वातिर्मघानुराधे च पुष्यं शस्तं प्रवेशने विदोषास्तिथयः शस्ताः श्रेष्ठं भौमदिनं तथा ॥३॥ कैश्चिच्चन्द्रदिनम्प्रोक्तं बुधजीवौ तु मध्यमौ । गोकुलीरालिकन्यानामुदयांशाः शुभाःस्मृताः । इति प्रवेशविधिः। -----:0:- -- रेवतीपुष्यहस्ताश्च रोहिणी चोत्तरत्रयम् । अदितिर्मूलमिसेतद् विशिष्टे कृषिकर्मणि ॥ ४ ॥ राधानुराधा स्वातिश्च विष्णुःपैत्रं त्रिपूर्वकम् । चित्राश्विनीतिचैत्राणि परे प्राहुःकृषिक्रिये ॥५॥ शुक्राज्ञेन्टुजीवानां वारवर्गोंदयाः शुभाः। विदोषास्तिथयःसर्वाः कषिकर्मणि पूजिताः ॥ ६॥ मृगो मीनाकुलीरश्च मिथुनं वृषभोदयः । श्रेष्टो धनुस्तुला कन्या मध्यमा कृषिकर्मणि ॥ ७ ॥ १ स्पष्टान्टयैः। * प्रतिमानयेच्च। Aho ! Shrutgyanam
SR No.009874
Book TitleDaivagna Kamdhenu
Original Sutra AuthorN/A
AuthorC A Seelakkhanda
PublisherChaukhamba Sanskrit Series Office
Publication Year1905
Total Pages318
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy